________________
७४]
सिद्धान्तकौमुदी। [तत्पुरुषसमासप्रयुज्यते । पूर्वनिपातनियमार्थ सूत्रम् । ७३५ उपमितं व्याघ्रादिभिः सामान्याप्रयोगे । (२-१-५६ ) उपमेयं व्याघ्रादिभिः सह प्राग्वसाधारणधर्मस्याप्रयोगे सति । विशेष्यस्य पूर्वनिपातार्थ सूत्रम् । पुरुषव्याघ्रः । नृसोमः । म्यानादिराकृतिगणः । सामान्याप्रयोगे किम्-पुरुषो व्याघ्र इव शूरः । ७३६ विशेषणं विशेष्येण बहुलम् । (२-१-५७) भेदकं समानाधिकरणेन भेयेन किमर्थमिदं सूत्रमित्यत आह–पूर्वनिपातेति । अन्यथा उभयोरपि गुणवचनतया विशेषणविशेष्यभाव कामचारात् खञ्जकुब्जः कुब्जखञ्ज इतिवदनियमः स्यादिति भावः। उपमितम् । प्राग्वदिति । समानाधिकरणैस्समस्यते, स तत्पुरुष इत्यर्थः। अत्रोपमितस्य नित्यमुपमानाकाक्षत्वादुपमानभूतव्याघ्रादिभिरित्यथेसिद्धम् । ननु विशेषण. समासेनैव सिद्धे किमर्थमिदं सूत्रमित्यत आह-विशेष्यस्येति । उपमानोपमेयसममिव्याहारे उपमानस्यैव विशेषणत्वात्पूर्वनिपाते प्राप्त विशेष्यस्य पूर्वनिपातनार्थमिदमित्यर्थः । पुरुषव्याघ्र इति । पुरुषो व्याघ्र इवेति विग्रहः । अत्र सादृश्योपपादकः शौर्यात्मकः साधारणधर्मः, स इह नोपात्त इति भवति समासः। पुरुषो व्याघ्र इव शूर इति । शौर्येण व्याघ्रसदृश इति यावत् । अत्र शौर्यस्योपमानोपमेयसाधारणधर्मस्य प्रयोगान्न समास इति भावः । 'भाष्याब्धिः क्वातिगम्भीरः' इति कैयटप्रयोगस्तु मयूरव्यंसकादित्वात्समाधेयः । भाष्यमेवाब्धिरिति रूपकं वा । न च पुरुषशब्दस्य शूरशब्दसापेक्षत्वादसामर्थ्यादेवात्र समासस्य न प्रवृत्तिः। अतः '-सामान्याप्रयोगे' इति व्यर्थमिति वाच्यम् , समस्यमानेष्वप्रधानस्यैव हि सापेक्षत्वं सामथ्यविघातकम् , न तु प्रधानस्य । तथा चात्र पुरुषस्य प्रधानतया तस्य शूरापेक्षत्वेऽपि अस्त्येव सामर्थ्यमिति समासप्रवृत्तेः, तन्निवृत्त्यर्थ सामान्याप्रयोग इति वचनम् । इदमेव प्रधानस्य सापेक्षत्वेऽपि न सामर्थ्यविघातकत्वमिति ज्ञापयति । तेन राजपुरुषः सुन्दर इत्यादौ समासः सिद्धो भवतीति भाष्ये स्पष्टम् ।
विशेषणं विशेष्येण बहुलम् । विशिष्यते अनेनेति विशेषणम् , इतरस्माद्यावर्तकम् । व्यावयं तु विशेष्यं भिन्नत्वेन ज्ञायमानम् । समानाधिकरणेनेत्यधिकृभूतपूर्वगत्या शक्यार्थमादाय तत्परतेत्यवेहि । पूर्वनिपातेति । अन्यथाऽनियमः स्यात् खनकुन्जवदिति भावः । किं च 'तत्पुरुषे तुल्यार्थतृतीयासप्तम्युपमानाव्यय-' इति सूत्रे प्रतिपदोक्तस्यास्यैवोपमानग्रहणेन ग्रहणार्थमपीदं सूत्रम् । अत एव मयूरव्यंसकादित्वासमासे उपमानस्वरो न प्रवर्तत इति सिद्धान्तः । उपमितम् । उपमेयमुपमितम् । भूतकालोऽत्र न विवक्षितः। तच्च संबन्धिशब्दत्वादुपमानमाक्षिपति । तथा चोपमानभूतैर्व्याघ्रादिभिरित्यर्थः । पुरुषो व्याघ्र इव शूर इति । तत्र हि शूरसपिक्षस्यापि