SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् १८] बालमनोरमात्तत्त्वबोधिनीसहिता। [७३ ७३४ उपमानानि सामान्यवचनैः। (२-१-५५) धन इव श्यामो धनश्यामः । इह पूर्वपदं तत्सदृशे लाक्षणिकमिति सूचयितुं लौकिकविग्रहे इवशब्दः कुलालश्चेति विग्रह । उपमानानि सामान्यवचनैः। उपमीयन्ते सदृशतया परिच्छिद्यन्ते यैस्तान्युपमानानि सादृश्यनिरूपकाणीत्यर्थः । सामान्य उपमानोपमेय. साधारणधर्मः, तमुक्तवन्तः शब्दाः सामान्यवचनाः । बाहुलकः कर्तरि ल्युट् । पूर्व सामान्यमुक्त्वा तद्वति द्रव्ये ये पर्यवस्यन्ति ते सामान्यवचना इति यावत् । तथा च सादृश्यनिरूपकशब्दापरपर्याया उपमानशब्दा उपमानोपमेयसाधारणधमेविशिष्टवाचिभिः समानाधिकरणः समस्यन्ते, स तत्पुरुष इत्यर्थः । घन इव श्यामो घनश्याम इति । नन्विह घन इव श्याम इति विग्रहे घनशब्दस्य श्यामशब्दस्य चैकार्थवृत्तित्वलक्षणसामानाधिकरण्याभावात् कथमिह समासः, इवशब्दापेक्षत्वेनासामर्थ्याच्चेत्यत आह-इह पूर्वपदमिति । एवं च घनशब्दो लक्षणया घनसदृशे रामे वर्तते, श्यामशब्दोऽपि रामे वर्तत इति सामानाधिकरण्यम् । अत एव मृगीव चपला भृगचपला इत्यत्र 'पुंवत्कर्मधारय-' इति पुंवत्त्वं सिध्यति । घनशब्दस्य भूतपूर्वगत्योपमानपरत्वं निर्वाह्यम् । तथा च 'घनसदृशश्यामः' इति बोधः । सादृश्यं तद्भिन्नत्वे सति तद्गतधर्मवत्त्वम् । एवं च सादृश्यप्रतियोग्यनुयोगिनोस्साधारणधर्मवत्त्वं लब्धम् । स चेह साधारणधर्म उत्तरपदोपस्थाप्य एव गृह्यते, संनिहितत्वात् । तथा च धनगतश्यामत्वसदृशश्यामत्ववान् इति बोधपर्यवसानम् । ननु विशेषणसमासेन सिद्धे तस्मात्पूर्वनिपातनियमार्थमिदं सूत्रमित्याशयेनाह-पूर्वसूत्रापवाद इति । उपमानानि । उपमीयते येन तदुपमानम् । उपपूर्वान्माङः करणे ल्युट । प्रादिसमासः। उपपूर्वको माङ् सादृश्यवाचके परिच्छेदे रूढः । येन वस्त्वन्तरं सादृश्येन परिच्छिद्यते तदुपमानमित्यर्थः । यथा गौरिव गवयः । इह हि गौः करणं सादृश्ये हेतुः, पुरुषः परिच्छेत्ता । स हि गौः सादृश्येन गवयं परिच्छिनत्ति । सामान्यवचनैरिति । समानो धर्मः सामान्यम् । चातुर्वर्यादित्वात्स्वार्थे ध्यञ् । उपमानोपमेयसाधारणो यो धर्मस्तद्विशिष्टवचरित्यर्थः । न तु साधारणधर्ममात्रवचनैरिति । एतच्च वचनग्रहणालभ्यते । सामान्यमुक्तवन्तः सामान्यवचनाः । बाहुलकात्कर्तरि भूते ल्युट । ये पूर्व सामान्यमुक्त्वा तद्वति द्रव्ये पर्यवस्यन्ति ते तथोक्ताः । तच्च सामान्यविशिष्टमुषमानशब्दस्य संबन्धिशब्दत्वादाक्षिप्तमुपमेयमेव विज्ञायते । लाक्षणिकमिति । अत एव सामानाधिकरण्यान्मृगीव चपला मृगचपलेत्यादौ पुंवद्भावः । उत्तरपदोपस्थितश्यामत्वचपलत्वादिद्वारकमेवेह सादृश्यं गृह्यते, संनिधानात् । कथं तर्हि उपमानपरतेति चेत्,
SR No.006149
Book TitleLaghu Siddhant Kaumudi Part 02
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1982
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy