________________
७२ ]
सिद्धान्तकौमुद्री। [तत्पुरुषसमासपञ्चगवम् । ७३२ कुत्सितानि कुत्सनैः । (२-१-५३) कुरस्यमानानि कुत्सनैः सह प्राग्वत् । वैयाकरणखसूचिः । मीमांसकदुर्दुरूटः । ७३३ पापाणके कुत्सितैः। (२-१-५४) पूर्वसूत्रापवादः । पापनापितः । अणककुलालः । तदर्थो मूले वक्ष्यते । इति द्विगुसमासः । कुत्सितानि कुत्सनैः । वर्तमाने क्तः, व्याख्यानात् । तदाह-कुत्स्यमानानीति । कुत्सनैरिति करणे ल्युट । प्राग्वदिति । समानाधिकरणेन समस्यते स तत्पुरुष इत्यर्थः। वैयाकरणखसूचिरिति । वैयाकरणश्वासौ खसूचिश्चेति विग्रहः । यः प्रक्रियां पृष्टस्सन् प्रश्नं विस्मारयितुमाकाशं दर्शयति पश्यति वा स एवमुच्यते । अत्र वैयाकरणः प्रक्रियाविस्मरणानिन्द्यः । खसूचनं निन्दाहेतुः । मीमांसकदुर्दुरूढ इति । 'दुल उत्क्षेपे' चुरादिः । दुपूर्वादौणादिकः कूटप्रत्ययः । 'बहुलमन्यत्रापि' इति गर्लुक् । रलयोरभेदाद् रः । यो मीमांसामधीत्यान्यथा जानानो दुराक्षेपं करोति स एवमुच्यते। विशेष्यस्य पूर्वनिपातार्थ सूत्रम् । विशेषणसमासे तु विशेषणस्य पूर्वनिपातः स्यात् । पापाणके कुत्सितैः। पापशब्दः अणकशब्दश्च कुत्सितवाचकैः समस्यते, स तत्पुरुष इत्यर्थः । ननु विशेषणसमासेनैव सिद्धे किमर्थमिदमित्यत आह-पूर्वसूत्रेति । पापमस्यास्तीति मत्वर्थीयः अर्शश्राद्यच् । पापशब्दः पापवति वर्तते । अणकशब्दः कुरूपिणि वर्तते। 'कुरूपकुत्सितावद्यखेटगाणकास्समाः।' इत्यमरः । ततश्च पापाणकशब्दौ निन्दाहेतुभूतपापकुरूपात्मकप्रवृत्तिनिमित्तौ कुत्सनाभिधायिनौ । ततश्चानयोः पूर्वसूत्रेण समासे परनिपातः स्यात् । अतः पूर्वनिपातनियमार्थमिदं सूत्रमित्यर्थः । पापनापित इति । पापश्चासौ नापितश्चेति विग्रहः । अणककुलाल इति । अणकश्चासौ एव स्फुटीभविष्यति। कुत्सितानि । 'कुत्स अवक्षेपणे' कर्मणि क्तः । स च 'मतिबुद्धि-' इति सूत्रे चकारस्यानुक्तसमुच्चयार्थत्वाद्वर्तमाने विहित इत्याशयेनाहकुत्स्यमानानीति । तत्प्रतिपादकानीत्यर्थः । उभयत्र बहुवचननिर्देशः स्वरूपविधिनिरासार्थः । वैयाकरणखसूचिरिति । सूचयतेः 'अच इ.' । यः पृष्टः सन् प्रश्नं विस्मारयितुं खं सूचयत्यभ्यासवैधुर्यात्स एवमुच्यते । न तु वस्तुतो व्याकरणं तदध्ययनं वा कुत्सितम् । वेदाङ्गत्वेन तस्य प्रशस्तत्वात् । तथापि तस्य प्रतिभाना. भावेन निष्फलत्वात्कुत्स्यते । दुर्दुरूट इति । 'दुल उत्क्षेपे' दुरपूर्वः । औणादिकः कूटप्रत्ययः । 'बहुलमन्यत्रापि' इति णेलृक् । रलयोरेकत्वस्मरणालस्य रः । विशेष्यस्य पूर्वनिपातनियमार्थ सूत्रम् । शब्दप्रवृत्तिनिमित्तकुत्सायामेवायं संनिधानात् । तेनेह ननैयायिको दुराचारः । पापाणके । एतौ कुत्सनाभिधायिनौ । 'कुपूर्वकुत्सितावद्यखेट. गर्वाणकाः समाः' इत्यमरः । ततश्चानयोः पूर्वसूत्रेण समासे परनिपातः स्यात् ,
१ कचित्तु 'दुर्दुरूढः' इति पाठः ।