________________
प्रकरणम् १८] बालमनोरमा-तत्त्वबोधिनीसहिता। [७१ द्विग्वर्थः समाहार एकवत्स्यात् । 'स नपुंसकम्' (सू ८२१) इति नपुसकत्वम् । द्वित्वबहुत्वयोः एकत्वानुपपत्तेरतिदेशस्सम्पद्यते । तदाह--द्विग्वर्थः समाहार एकवदिति । यदा समाहरणं समाहारः समूहः, तदा तस्यैकत्वादेव सिद्धमिति नेदं सूत्रमारम्भणीयमिति भाष्ये स्पष्टम् । केचित्तु समूहस्य वस्तुत एकत्वेऽपि उद्भूतावयवभेदविवक्षया द्विबहुवचनव्यावृत्त्यर्थमिदम् । एवं चात्र उद्भूतावयवमेदविवक्षा न कर्तव्येति फलतीत्याहुः । स नपंसमिति । समाहारे द्विगुर्द्वन्द्वश्च नपुंसकं स्यादिति निषेदुः' । 'सप्तऋषणां सुकृतां यत्र लोकः' इत्यादि । त्रिविधः संख्यापूर्व इति । तद्धितार्थे विधये, उत्तरपदे च परतः, समाहारे च वाच्ये, संख्यापूर्वो यः समासः स इत्यर्थः । तद्धितार्थे यथा-पञ्चकपालः । 'संस्कृतं भक्षाः' इत्यणो 'द्विगोलुंगनपत्ये' इति लुक् । उत्तरपदे यथा-पचनावप्रियः । 'नावो द्विगोः' इति समासान्तष्टच् । समाहारे-पञ्चमूली । 'द्विगोः' इति डीप । द्विगुरेकवचनम् । वक्तीति वचनम् , बाहुन्नकात्कर्तरि ल्युट् । 'सामान्ये नपुंसकम्' । द्विगुः समास एकार्थप्रतिपादको भवतीत्यर्थ । न च वस्तुतोऽनेकार्थस्यैकार्थ्यं कथंचिदुपपद्यत इति सामर्थ्या दतिदेशः संपद्यत इत्याह--एकवत्स्यादिति । समाहारे इति तूपसंख्यानाल्लभ्यते। समाहारे यो द्विगुस्तदर्थ एकवदित्यन्वयः । समाहारे किम् , तद्धितार्थे मा भूत् । पञ्चसु कपालेषु संस्कृताः पञ्चकपालाः, पञ्चभिर्गोभिः क्रीताः पञ्चगवः पटाः । पञ्चगवे पञ्चगवानीत्यत्र तु प्रथमद्विग्वर्थस्यकवद्भावे कृते योऽयमेकशेषे कृते द्विग्वर्थसमुदाय. स्तस्याद्विग्वर्थत्वादहिरङ्ग वाच्चैकवद्भावो न भवतीति स्थितमाकरे । यदा 'तद्धितार्थ-' इंति सूत्रे 'समाहारे' इति कर्मसाधनस्तदा समाहृतप्रधानो द्विगुरिति बहुत्वे प्राप्ते अनेन एकवद्भावः क्रियते । यहा तु भावसाधन एव समाहारस्तदा समूहप्रधानत्वाद् द्विगोः समूहस्य चैकत्वात्सिद्धमेकत्वमिति नास्य प्रयोजनम् । न च ‘स नपुंसकम्' इति नपुंसकत्वार्थमेकत्वविधानमिति वाच्यम् , समुदायवाचकेषु 'सामान्ये नपुंसकम्' इत्यभ्युपगमे बाधकाभावादित्याहुः । वस्तुतस्तु 'तद्धितार्थ-' इति सूत्रे समाहार इति भावे घञ् न तु कर्मणि । पञ्चगवमित्यत्र पञ्च गावः समाहृता इत्यर्थाभ्युपगमे समाहियमाणानां बहुत्वेन एकवचनानुपपत्तेः । न च 'द्विगुरेकवचनम्' इति सूत्रानैवमिति वाच्यम् , पञ्चखट्वीत्यसिद्धेः । तत्र हि पञ्च खट्वाः समाहृताः, पञ्चसु खट्वासु समाहवास्वित्येवं विग्रहसंभवेन नियतविभक्तित्वाभावाद् “एकविभक्ति चापूर्वनिपाते' इत्यप्रवृत्तेरनुपसर्जनत्वाद् 'गोस्त्रियोः-' इति ह्रस्वो न स्यात् । ततश्च 'आवन्तो वा' इति स्त्रीत्वपक्षे 'द्विगोः' इत्यदन्तलक्षणो डीन स्यात् । भावसाधनवे त्वेकविभक्तित्वादुपसर्जनत्वमव्याहतमेव । समाहारापेक्षया नियमेन वर्तिपदानां षष्ठयन्तत्वात् , तथा च पन्नखट्वीत्यादिरूपं निर्वाधमेवेति दिक् । स नपुंसकमिति । एतस्यार्थो मूल