________________
७०]
सिद्धान्तकौमुदी। [तत्पुरुषसमास७३० संख्यापूर्वो द्विगुः । (२-१-५२) तद्धितार्थ-' (सू ७२८) इत्यत्रोऋविविधः संख्यापूर्वो द्विगुः स्यात् । ७३१ द्विगुरेकवचनम् । (२-४-१) अवादेशे पञ्चगवशब्दस्य द्विगुकार्य विधास्यन् द्विगुसंज्ञामाह। संख्यापूर्वो द्विगुः । संख्या पूर्वोऽवयवो यस्येति बहुव्रीहिः । तद्धितार्थ-' इति पूर्वसूत्रविहितसमासः अन्यपदार्थः, प्रत्यासत्तेः, तदाह-तद्धितार्थत्यत्रोक्नस्त्रिविध इति । तद्धितार्थे विषये उत्तरपदे च परतः समाहारे च वाच्ये इत्येवं त्रिप्रकारो यः संख्यापूर्वः समास उक्तः स द्विगुरिति यावत् । तथा च पञ्चगवशब्दस्य समाहारे वाच्ये विहितसमासत्वाद् द्विगुसंज्ञा स्थिता । तद्धितार्थे तु पञ्चसु कपालेषु संस्कृतः पुरोडाशः पञ्चकपालः । 'संस्कृतं भक्षाः' इत्यण । 'द्विगोलुंगनपत्ये' इति लुक् । उत्तेरपदे यथा-पञ्चनावप्रियः। 'नावो द्विगोः' इति समासान्तष्टच् । द्विगुरेकवचनम् । अत्र 'समाहारग्रहणं कर्तव्यम्' इति वार्तिकात् समाहार इति लभ्यते । वक्तीति वचनम् । बाहुलकः कर्तरि ल्युट् । सामान्ये नपुंसकम् । समाहारे द्विगुः एकार्थप्रतिपादकः स्यादिति लभ्यते । तत्र यदि समाहियत इति कर्मणि घनि समाहारशब्दः समाहृतप्रधानः, तदा समाहृतगतप्रन्थमनुसृत्योक्तम् । वस्तुतस्तु त्रयाणां समासे कृते अन्यपदार्थोपसंक्रमेण परस्परसंबन्धाभावाद् द्वन्द्वतत्पुरुषयोरप्राप्तौ सत्यां वचनमिदमित्यादि स्थितम् । द्वन्द्वस्योदाहरणं तु-वाक् च दृषञ्च प्रिये अस्य वाग्दृषदप्रियः । छत्रोपानहप्रियः । इह त्रिपदे बहुवीही कृते पूर्वयोर्नित्यं द्वन्द्वः, तेन 'द्वन्द्वाच्चुदषहान्तात्-' इति समासान्तष्टजपि नित्य एव । गोरतद्धित । 'तत्पुरुषस्य-' इत्यनुवर्तते टच्च, तदाह-गोन्तादित्यादि । ननु ग्रहणवता प्रातिपदिकेन तदन्तविधेरभावात्तत्पुरुषस्यावयवो यो गोशब्दस्तस्मादृजित्यर्थः स्यात् । तथा च गोमूत्रमित्यादावतिप्रसङ्गः स्यादत आह-समासान्त इति । अयं भावः-'समासान्ताः' इत्यधिकाराट्टचा समासान्तेन भवितव्यम् । गोरिति पञ्चमीश्रवणात्ततः परेणापि । न चैतत्तदन्तविधिमन्तरेणोपपद्यत इति सामर्थ्यात्तदन्तविधिलाभः, ततश्च तत्पुरुषस्येति षष्ठयन्तं पञ्चम्यन्तेन विपरिणम्यत इति । न तद्धितलुकीति । लुग्विषय इत्यर्थः, न तु तद्धितलुकि सतीति । समासान्तानामन्तरगत्वात् । अतद्धितलुकीति किम् , पञ्चभिर्गोभिः क्रीतः पञ्चगुः । अत्र तद्धितस्य ठकः 'अध्यर्धपूर्व-' इति लुक् । संख्यापूर्वो द्विगुः । अत्रोक्त इति । अयं भावः-पूर्वसूत्रविषयैरेवेयं संज्ञा । 'अनन्तरस्यैव-' इति न्यायात् । एतदर्यमेव हि सूत्रद्वयं कृतम् , अन्यथा 'दिक्संख्ये संज्ञातद्धितार्थोत्तरपदसमाहारेषु' इत्येव ब्रूयात् । तेन सप्तर्षय इत्यत्र 'इगन्तकालकपाल-' इत्यादिना पूर्वपदप्रकृतिस्वरो न भवति । किंतु समासान्तोदात्त एव । तथा च लक्ष्यम्-'सप्त ऋषयस्तपसे ये