________________
प्रकरणम् १८ ] बालमनोरमा तत्त्वबोधिनीसहिता ।
[ ६६
यास्तद्धितार्थे-षण्णां मातृणामपत्यं वारमातुरः । पच गावो धनं यस्येति त्रिपदे बहुव्रीहाववान्तरतत्पुरुषस्य विकल्पे प्राप्ते 'द्वन्द्वतत्पुरुषयोरुत्तरपदे नित्यसमासवचनम्' ( १२८७ ) ७२६ गोरतद्धितलुकि । ( ५-४ -१२) गोऽन्वात्तत्पुरुषाट्टच् स्यात्समासान्तः, न तडितलुकि । पञ्चगवधनः । पञ्चानां गवां समाहारः । समाहारे दिक्पूर्वपदसमासो नास्तीति यावत् । संख्यायास्तद्धितार्थ इति । समास उदाह्रियत इत्यर्थः । तत्र तद्धितार्थ उदाहरति-- बारामातुर इति । 'मातुरुत्संख्यासम्भद्रपूर्वायाः' इत्यण्, प्रकृतेरुकारश्चादेशः, आदिवृद्धिश्च । अथ उत्तरपदे परत उदाहरति - पञ्च गाव इति । श्रवान्तरतत्पुरुषस्येति । उत्तरपदे परतो विहितस्येत्यर्थः । विकल्पे प्राप्त इति । महाविभाषाधिकारादिति शेषः । ततश्च पञ्चगोशब्दयोस्तत्पुरुषाभावपत्ते 'गोरतद्धितलुकि' इति तत्पुरुष प्रयुक्तटजभावे पञ्चगोधन इत्यपि स्यादिति भावः । द्वन्द्वतत्पुरुषयोरिति । उत्तरपदे परतो यौ द्वन्द्वतत्पुरुषौ तयोर्नित्यत्वं वक्तव्यमित्यर्थः । समासग्रहणं तु संपातायातम्, अनन्वयाद् उत्तरपदे परतः समाससंज्ञाया अव्यभिचाराच्च, उत्तरपदशब्दस्य समासोत्तरखण्डे रूढत्वात् । गोरतद्धितलुकि । 'तत्पुरुषस्याङ्गुले -' इत्यतस्तत्पुरुषस्येत्यनुवृत्तं पञ्चम्या विपरिणतं गोरित्यनेन विशेष्यते । तदन्तविधिः । 'राजाह स्सखिभ्यः -' इत्यतष्टजित्यनुवर्तते । समासान्त इत्यधिकृतम् । तदाह-गोऽन्तादित्यादिना । श्रतद्धितलुकीति किम् ? पञ्चभिर्गोभिः क्रीतः पञ्चगुः । अत्र तद्धितस्य 'अध्यर्ध-' इति लुक् । पञ्चगवधन इति । त्रिपदबहुव्रीहौ कृते सति धनशब्दे उत्तरपदे परे पूर्वयोस्तत्पुरुषे टचि अवादेश इति भावः । अत्र 'द्वन्द्वतत्पुरुषयोः -' इति वार्तिके द्वन्द्वस्योदाहरणं तु वाक् च त्वक् च प्रिया यस्य स वाक्त्वचप्रिय इति बोध्यम् । इह त्रिपदबहुव्रीहौ कृते पूर्वयोनित्यद्वन्द्वः । तेन 'द्वन्द्वाच्चुदषहान्तात् समाहारे' इति टजपि नित्य एव । न च वाक्त्वक्छब्दयोः परस्परसामानाधिकरण्याभावात् कथमिह त्रिपदबहुव्रीहिरिति वाच्यम् । द्वयोः प्रियाशब्दसामानाधिकरण्यमादाय तदुपपत्तेः । 'सप्तमीविशेषणे बहुव्रीहौ' इति ज्ञापकेन कण्ठेकाल इत्यादाविव व्यधिकरणबहुव्रीहिसंभवाश्च । 'वाक्त्वचप्रियः' इति भाष्ये उदाहरणमेवात्र लिङ्गमित्यलम् । अथ समाहारे उदाहर्तु विग्रहं दर्शयतिपञ्चानां गवां समाहार इति । यत्र समासे सति 'गोरतद्धितलुकि' इति चि
युदात्तत्वमेव स्यादिति भावः । षाण्मातुर इति । 'मातुरुत्संख्यासंभद्रपूर्वायाः' इत्लुदादेशः । 'अनपत्ये' इत्युक्तेः 'द्विगोर्लुग्-' इति लुग् न । विकल्पे प्राप्त इति महाविभाषयेति शेषः । ततश्च तत्पुरुष प्रयुक्तटजभावे पञ्चगोधन इत्यपि स्यादिति भावः । मनोरमाया तु—विकल्पे प्राप्ते नित्यसमासार्थं द्वन्द्वतत्पुरुषयोरित्येतद्वचनमिति प्राचां