________________
६८]
सिद्धान्तकौमुदी। [ तत्पुरुषसमाससमासे कृते 'दिक्पूर्वपदादसंज्ञायां मः' (सू १९२८) इति अः । 'सर्वनानो चिमाने पुंवद्रावः' (वा १३७६)। प्रापरशालः । पूर्वा शाला प्रिया यस्येति त्रिपदे बहुव्रीही कृते प्रियाशब्दे उत्तरपदे पूर्वयोस्तत्पुरुषः । तेन शालाशब्दे माकार उदात्तः । पूर्वशालाप्रियः । दिउ समाहारो नास्त्यनभिधानात् । संख्या
हरति-पूर्वस्यामिति । समासे कृत इति । पूर्वस्यां शालायां भव इति विग्रहे 'तद्धितार्थे-' इति समासे कृते 'दिक्पूर्वपदात्-' इति अप्रत्यये कृते 'यस्येति च' इत्याकारलोपे आदिवृद्धिरिति भावः । सर्वनाम्न इति । मात्रशब्दः कात्स्न्ये । समासतद्धितादिवृत्तिगतसर्वनाम्नां पुंवत्त्वमिति तदर्थः । यदि तु तद्धिते परे दिक्संख्ये समस्येते इत्युच्यते, तर्हि उत्पन्ने तद्धिते समासः, समासे कृते दिक्पूर्वपदत्वात्तद्धित इत्यन्योन्याश्रयप्रसाः । तद्धितार्थे वाच्ये दिक्संख्ये समस्येते इति तु न व्याख्यातम् । तद्धि. तार्थस्य तद्धितवाच्यतया समासार्थत्वाभावात् । अतस्तद्धिते भविष्यतीत्येव व्याख्यातुमुचितम् । आपरशाल इति । अपरस्यां शालायां भव इति विग्रहः । समासादि पौर्वशालवत् । उत्तरपदे परतो दिक्समासमुदाहरति-पूर्वा शाला प्रिया यस्येत्यादिना । ननु बहुव्रीहिसमासे कृते सुपा लुप्तत्वाद् उत्तरपदे परतः पूर्वयोः किमनेन समासेनेत्यत आह-तेन शालाशब्दे आकार उदात्त इति । अवान्तरतत्पुरुषे सति समासान्तोदात्तत्वेन लकारादाकार उदात्त इत्यर्थः । असति त्ववान्तरतत्पुरुषे पूर्वपदप्रकृतिस्वरेणाद्युदात्तत्वं स्यादिति भावः । ननु पूर्वेषां पुरुषाणां समाहार इत्यत्रापि समासः स्यादित्यत आह-दिदिवति । दिक्षु समाहारो द्विगुविषयो न भवतीत्यर्थः ।
'तद्धितार्थे वाच्ये' इति व्याख्यायेत, तर्हि पौर्वशाल इत्यादौ तद्धितो न स्यात् । तद. र्थस्य समासेनैवोकत्वात् । 'द्विगोलुंगनपत्ये' इति ज्ञापकादुक्तेऽपि तद्धितार्थे तद्धितो भवतीति कल्पनायां प्रतिपत्तिगौरवमिति भावः । 'तद्धिते परे' इति तु न व्याख्येयमेव । तद्धिते परतः समासः, समासे कृते 'दिक्पूर्वपदात्-' इत्यादिना तद्धित इत्यन्योन्याश्रयप्रसङ्गात् । समाहारे च वाच्य इति । तेन पञ्चगवमित्यादौ समासेनैव समाहारस्योकत्वात्समूहार्थप्रत्ययो नोत्पद्यते। अन्यथा अत्र 'गोरतद्धितलुकि' इति टज्न स्यात् , सामूहिकप्रत्ययस्य 'द्विगो गनपत्ये' इति लुकः प्रवृत्तेरिति भावः । सर्वनाम्न इति । एतच्च पूर्वापरोदाहरणान्वयि । यद्यपि 'स्त्रियाः पुंवत्-' इत्यनेनापि प्रकृतरूपसिद्धिः, तथाप्युत्तरपूर्वेत्याद्यर्थे 'सर्वनान-' इति वचनमावश्यकम् , प्रतिपदोक्तत्वाद् । इहापि तदुपन्यासो न्याय्य इति भावः । वृत्तिमात्र इति। तद्धितवृत्तौ समासवृत्तौ चेति कैयटःआकार उदात्त इति । असति त्ववान्तरे तत्पुरुषे पूर्वपदप्रकृतिस्वरेण पूर्वशब्दस्या