________________
प्रकरणम् १८] बालमनोरमा-तत्त्वबोधिनीसहिता। [६७ कामशमी सप्तर्षयः । नेह, उत्तरा वृत्ताः । पञ्च ब्राह्मणाः । ७२८ तद्धितायोत्तरपदसमाहारे च । (२-१-५१) तद्धितार्थे विषये उत्तरपदे च परतः समाहारे च वाच्ये दिक्संख्ये प्राग्वद्वा । पूर्वस्यां शालायां भवः पौवंशावः । पञ्चानां गवां समाहारः पञ्चगवमित्यत्र 'तद्धितार्थ-' इति समासश्च न स्यादिति वाच्यम् । 'विशेषणं विशेष्येण--' इति यदि दिक्संख्ययोस्समासः स्यात् तर्हि संज्ञायामेवेति नियमशरीराभ्युपगमात् । पूर्वसूत्रम्, पूवमासः, पूर्वसमुद्र इत्यादौ तु संज्ञात्वाभावेऽपि कालदेशवाचकत्वात् समासो भवत्येव । ननु 'त्रिलोकनाथः पितृसद्मगोचरः' इति कथं कालिदासप्रयोगः, त्रिलोकशब्दस्य असंज्ञात्वात् । त्रयाणां लोकानां समाहार इति विग्रहे 'तद्धितार्थ-' इति द्विगुसमासे तु 'द्विगोः' इति डीप्प्रसङ्गः । 'अकारान्तोत्तरपदो द्विगुः स्त्रियामिष्टः' इति स्त्रीलिङ्गत्वात् । पात्रादित्वाद् न स्त्रीत्वमित्यभ्युपगमे 'यदि त्रिलोकी गणनापरा स्यात्' इत्यादिप्रयोगा न युज्येरनिति चेत् , सत्यम् । लोकशब्दोऽत्र लोकसमु. दायपरः । व्यवयवो लोकस्त्रिलोक इति मध्यमपदलोपी समासः । एतच्च 'द्विगोलुंग. नपत्ये' इति भाष्ये स्पष्टम् । षोडशपदार्थानामित्यत्र तु षोडशसंख्याकाः पदार्था इति मध्यमदलोपी समास इत्यलम् । पूर्वेषुकामशमीति । पूर्वशब्दस्य इषुकामशमीशन्देन समासः । देशविशेषस्य संज्ञेयम् । सप्तर्षय इति । मरीच्यत्रिप्रभृतीनां सप्तानामृषीणां संज्ञेयम् । नेहेति। असंज्ञात्वादिति भावः । तद्धितार्थ। एकापि सप्तमी विषयभेदाद् भिद्यते । तत्र तद्धितार्थत्यंशे वैषयिकाधारत्वे । उत्तरपदेयंशे सामीपिकमाधारत्वमादय परसप्तमी पर्यवस्यति । समाहारशि तु बाच्यतया आधारत्वे सप्तमी । पूर्वसूत्राद् दिक्संख्य इत्यनुवर्तते, तदाह-तद्धितार्थे विषय इति । तद्धितार्थे भविष्यत्तद्धितजन्यज्ञानविषये सतीत्यर्थः। तद्धिते भविष्यतीति यावत्।प्राग्वदिति । समानाधिकरणेन समस्यते, स तत्पुरुष इत्यर्थः । तद्धिताथै दिक्समासमुदासंज्ञायामेव दिक्संख्ये समस्येते' इति नियमशरीरम् । तेन पञ्चगुरित्यादि सिध्यति । कथं तर्हि 'त्रिलोकनाथः पितृसद्भगोचरः' इति कालिदासः, त्रिलोकशब्दस्यासंज्ञात्वात् । न च सभाहारे द्विगुः, 'द्वियोः' इति डीप्प्रसङ्गात् । न च पात्रादित्वं कल्प्यम् , 'यदि त्रिलोकी गणना परास्यात्' इत्यादिप्रयोगाणामसंगत्यापत्तेः । न च 'उत्तरपदें इति समासः, त्रिपदतत्पुरुषस्य इह दुर्लभत्वाद् । अत्राहुः- लोकशब्दोऽत्र लोकसमुदायपरः । यचयवो लोकत्रिलोकः । 'शाकपार्थिवादित्वादुत्तरपदलोपः' इति । पञ्च ब्राह्मणा इति । यद्यायत्र कृतऽपि समसि रूप विशेषो नास्ति, तथापि विभक्त्यन्तरे पञ्चभिर्बाह्मणैरित्यादौ विशेषों बोध्यः । तद्धितार्थो। असंज्ञार्य वचनम् । एकापि सप्तमी विषयभदाद्भिद्यत इत्याशयेनाह-तद्धितार्थे विषय इत्यादि । यदि त्