________________
६६ ] सिद्धान्तकौमुदी। [तत्पुरुषसमास(सू ७२७) इति नियमबाधनार्थ च । पूर्व स्वातः पश्चादनुलिसः खातानुलिसः । एकनाथः । सर्वयाज्ञिकाः । जरबैयायिकाः । पुराणमीमांसकाः । नवपाठकाः । केवलवैयाकरणाः । ७२७ दिक्संख्ये संज्ञायाम् । (२-१-५०) 'समानाधिकरणेन' इत्यापादपरिसमातेरधिकारः । संज्ञायामेवेति नियमार्थ सूत्रम् । पूर्वेषुबाधे प्राप्ते तत्प्रतिप्रसवार्थमप्येकग्रहणमित्यर्थः । स्नातानुलिप्त इति । विग्रहवाक्यवदिह पूर्वपश्चाच्छब्दाभावेऽपि स्नानानुलेपनयोः पौर्वापर्य समासगम्यमेव । पूर्वकालः समस्यत इत्युक्ते परकालेनेत्यर्थात्प्रतीतेः । एकनाथ इति । एकश्चासौ नाथश्चेति विग्रहः । सर्वयाशिका इति । यज्ञमधीयते विदन्ति वा याज्ञिकाः । 'क्रतूक्थादिसूत्रान्ताट ठक् । सर्वं च ते याज्ञिकाश्चेति विग्रहः । जरनैयायिका इति । जरन्तश्च ते नैयायिकाश्चेति विग्रहः । न्यायमधीयते विदन्ति वा नैयायिकाः । पूर्ववत् ठक् । 'न स्वाभ्याम्-' इत्यैजागमो वृद्धिनिषेधश्च । 'जीयतेरतृन्' इति भूते अतॄन् । जीर्णनैयायिका इत्यर्थः । पुराणमीमांसका इति । मीमांसामधीयते मीमांसकाः । 'क्रमादिभ्यो वुन्' । पुराणाश्च ते मीमांसकाश्चेति विग्रहः । नवपाठका इति । ,नवाश्च ते पाठकाश्चेति विग्रहः । अत्र पुराणसाहचर्यानवशब्दो नूतनवाच्येव गृह्यते । न तु संख्याविशषवाची । केवलवैयाकरणा इति । व्याकरणमधीयते विदन्ति वा वैयाकरणाः । 'तदधीते तद्वेद' इत्यया । 'न स्वाभ्याम् -' इति वृद्धिनिषेध ऐजागमश्च । केवलाश्च ते वैयाकरणाश्चेति विग्रहः । दिक्संख्ये संज्ञायाम् । अधिकार इति । 'पूर्वकालैक-' इति सूत्रस्थं समानाधिकरणेनेत्येतद् आपादसमाप्तेरनुवर्तत इत्यर्थः । ततश्च दिक्संख्ये समानाधिकरणेन सुबन्तेन समस्येते, स तत्पुरुष इत्यर्थः । ननु 'विशेषणं विशेष्येण-' इत्येव सिद्धे किमर्थमिदं वचनमित्यत आहसंज्ञायामेवेति । न चैवं सति पञ्च गावो यस्य स पञ्चगुरिति बहुव्रीहिने स्यात् , निर्देशः । इतरेषां तु षण्णां स्वरूपग्रहणम् । पूर्वत्वस्य ससंबन्धिकत्वात्पूर्वकालोऽपरकालेन समस्यते । तथैवोदाहरति-स्नातानुलिप्त इति । अत्र क्रियाशब्दत्वात्पाचकपाठकवत्पर्यायः प्राप्तः।याशिका इत्यादि। यज्ञमधीयते विदन्ति वा याज्ञिकाः। 'ऋतूक्थादि-' इति ठक् । एवं नेयायिकाः । 'जीर्यतेरतृन्' इति भूतेर्थेऽतृन् । जरन्तश्च ते नैयायिकाश्च । जीर्णनैयायिका इत्यर्थः। मीमांसामधीयते विदन्ति वा मीमांसकाः, 'क्रमादिभ्यो वुन्'। नवपाठका इति । पठन्तीति पाठकाः । 'गवुल्तृचौ' इति ण्वुल् संख्यावाची नवशब्दोऽत्र न गृह्यते, 'दिक्संख्ये संज्ञायाम्' इति नियमात् । समानाधिकरणेनेति किम् , एकस्या शौक्लयम् । षष्ठीसमासोऽपि इह न भवति । 'पूरणगण-' इति निषेधात् । दिकसंख्ये संशायाम् । नियमार्थमिति । 'तत्पुरुषे