________________
प्रकरणम् १८] बालमनोरमा तत्वबोधिनीसहिता। [६५
पे । पात्रेसमिताः । भोजनसमय एव सङ्गताः, न तु कार्ये । गेहेशूरः । गेहेनर्दी । प्राकृतिगणोऽयम् । चकारोऽवधारणार्थः । तेनैषां समासान्तरे घटकतया प्रवेशो न । परमाः पात्रेसमिताः । ७२६ पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन । (२-१-४६) 'विशेषणं विशेष्येण-' (स् ७३६) इति सिद्धे पूर्वनिपातनियमार्थ सूत्रम् । एकशब्दस्य 'दिक्संख्ये संज्ञायाम्' निर्दिश्यन्त इत्यर्थः । पात्रेसमिता इति । इण् गतौ, संपूर्वाद् ‘गत्यर्थाकर्मक' इति कर्तरि क्तः । निपातनात् सप्तम्या अलुक् । भोजनपात्रे निहिते सति संगता इत्यर्थः । फलितमाह-भोजनेति । गेहेशूर इति । गेह एव प्रकटितंशौर्यः, न तु युद्ध इत्यर्थः । गेहेनर्दीति । नर्द शब्दे, 'सुप्यजातौ-' इति णिनिः। समासे सति निपातनादलुक् । गेह एव गर्जति, युद्धादौ तु न प्रवर्तत इत्यर्थः । चकारोऽवधारणार्थ इति । ततश्च एते यथा गणे पठितास्तथैव भवन्तीत्यर्थः । ततः किमित्यत आह-तेनेति । ततश्चं परमाश्च ते पात्रेसमिताश्चेत्यादौ समासो न भवति । पूर्वकालैक । सुबित्यनुवृत्तं बहुवचमेन विपरिणम्यते । सुपेति चानुवर्तते । पूर्वः कालो यस्य स पूर्वकालः । पूर्वकालवृत्तिरित्यर्थः । ततश्च पूर्वकालेत्यनेन पूर्वकालवृत्त्यर्थकशब्दस्य ग्रहणम् । एकादिशब्दास्तु षट् स्वरूपपरा एव । तथा च पूर्वकालादयस्सप्त सुबन्ताः समानाधिकरणेन सुबन्तन समस्यन्ते, स तत्पुरुष इत्यर्थः । समानम् एकम् अधिकरणं वाच्यं यस्येति विग्रहः । एकार्थवृत्तित्वं सामानाधिकरण्यमिति फलितम् । पूर्वनिपातेति । पश्चादनुलिप्तः पूर्व स्नातत्वेन, पूर्व स्नातो वा पश्चादनुलिप्तत्वेन विशेष्टुं शक्यते । अतो 'विशेषणं विशेष्येण-' इति समासे सति अन्यतरस्य पूर्वनिपाते प्राप्ते पूर्वकालवृत्तिशब्दस्यैव पूर्वनिपातार्थमिदं वचनम् । एवमेका दीनामपीत्यर्थः । एकशब्दविषये प्रयोजनान्तरमप्याह-एकशब्दस्येति । 'दिक्संख्ये संज्ञायां समस्येते' इति नियमस्य वक्ष्यमाणतया एकनाथ इत्यत्र विशेषणसमासस्य वोचाम । अवतप्त इति । नकुलेन स्थितं नकुलस्थितम् । 'कर्तृकरणे कृता-' इति समासः । कृग्रहणपरिभाषया नकुलस्थितशब्दोऽपि क्लान्त इति तेन सह सप्तम्यन्तस्य समासः। 'तत्पुरुषे कृति-' इति सप्तम्या अलुक् । अव्यवस्थितत्वप्रतिपत्त्यात्र निन्दावगम्यते। पात्रेसमितादयश्च । संपूर्वादिणः क्तः।गेहेनर्दीति। 'नर्द शब्दे' इत्य. स्मात् 'सुप्यजातौ-' इति णिनिः । घटकतया प्रवेशो नेति । 'परमाः पात्रेसमिताः' इति वाक्यमेव भवति, न तु 'सन्महत्-' इत्यादिना समासान्तरमिति भावः एतच्च शब्दकौस्तुभे स्थितम् । अन्ये तु 'केवलाः पात्रेसमिताः' इति वाक्यमेव, न तु 'पूर्वकालैक-' इत्यादिना समासान्तरमित्याहुः । पूर्वकालैक। पूर्वकाल इत्यर्थ
' 'प्रकटितयशाः' इति क्वचित् पाठः ।