________________
६४]
सिद्धान्तकौमुदी। तत्पुरुषसमास. पूढे गेयं साम । ७२१ संज्ञायाम् । (२-१-४४ ) सप्तम्यन्तं सुपा प्राग्वत्संज्ञायाम् । वाक्येन संज्ञानवगमालित्यसमासोऽयम् । भरण्येतिलकाः । वनेकशेरुकाः । 'हलदन्तात्सप्तम्याः-(सू ६६९) इत्यलुक् । ७२२ लेनाहोरात्रावयवाः। (२-१-४५) अहो रात्रेश्चावयवाः सप्तम्यन्ताः कान्तेन सह प्राग्वत् । पूर्वालकृतम्, अपररात्रकृतम् । अवयवग्रहणं किम्-अहि दृष्टम् । ७२३ तत्र। (२-१-४६) 'तत्र' इत्येतत्सप्तम्यन्तं क्रान्तेन सह प्राग्वत् । तत्रभुकम् । ७२४ तेपे । (२-१-४७) सप्तम्यन्तं कान्तेन प्राग्वनिन्दायाम् । 'अवतप्तेनकुलस्थितं त एतत्' ७२५ पात्रेसमितादयश्च (२-१-४८) एते निपात्यन्ते हितोत्तरकाले प्रत्यर्पणीयमृणमित्यर्थः । ऋणपदस्यावश्यकोपलक्षणतायाः प्रयोजनमाह-पूर्वाहणेगेयं सामेति । 'तत्पुरुषे कृति-' इत्यलुक् । यत्प्रत्यय एव कृत्योऽत्र विवक्षित इति भाष्यम् , तेनेह न-पूर्वाहणे दातव्या भिक्षेति । संज्ञायाम् । सप्तमीत्यनुवर्तते, तदाह--सप्तम्यन्तं सुपा प्राग्वत् संज्ञायामिति । अररयेतिलका इति वनेकशेरुका इति च संज्ञाशब्दौ । 'हलदन्तात् सप्तम्याः-' इत्यलुक् । क्तेनाहोरात्रावयवाः । अहोरात्रयोः अवयवा इति विग्रहः । सप्तमीत्यनुवर्तते । क्तेनेति तदन्तग्रहणम् , तदाह-अह्नो रात्रेश्चावयवा इति । अहरवयवस्योदाहरति-पूर्वाह्वकृतमिति । राज्यवयस्योदाहरति-अपररात्रकृतमिति । तत्र । तत्रेति शब्दस्वरूपग्रहणम् । सप्तमीति केनेति चानुवर्तते । तदाह-तत्रेत्येतत् सप्तम्यन्तं क्लेन सह प्राग्वदिति । तत्रभुक्तमिति । समासस्वरः प्रयोजनम् । तत्रभुक्तस्येद तात्रभुक्तम् इति च । क्षेपे । सप्तमीति क्लेनेति चानुवर्तते, तदाह-सप्तम्यन्तं क्वान्तेन प्राग्वन्निन्दायामिति । अवतप्तेनकुलस्थितं त एतदिति । स्थितमिति भावे क्तः । नकुलेन स्थितम् । 'कर्तृकरणे कृता बहुलम्' इति समासः । 'कृद्ग्रहणे गतिकारकपूर्वस्यापि ग्रहणम्' इति परिभाषया नकुलस्थितशब्दोऽपि क्लान्तः । तेन सहावतप्ते इति सप्तम्यन्तस्य अनेन समासे कृते 'तत्पुरुषे कृति-' इत्यलुक् । हे देवदत्त, ते तव, एतद् अवस्थानम् , अवतप्त नकुलस्थितमित्यन्वयः । यथा अवतप्तप्रदेशे नकुला न चिरं तिष्ठन्ति तथा कार्याएयुपक्रम्य तान्यनिवर्त्य इतस्ततो धावनमित्यर्थः । अव्यवस्थितोऽसीति निन्दा ज्ञेया। पात्रेसमितादयश्च । निपात्यन्त इति । कृतसमासादिकार्या एते शब्दा दाहरति-मासेदेयमिति। 'तत्पुरुषे कृति-' इत्यलुक् । नेह मासे दातव्यम् । नियोगोपलक्षणार्थमिति । नियोगो निर्धारणम । आवश्यकोपलक्षणार्थमित्यर्थः । नित्यसमासोऽयमिति । अत एव 'पुरुषेपूत्तमः' इति स्वपदविग्रहोऽसंगत इत्य