________________
प्रकरणम् १८ ]
बालमनोरमा-तत्त्वबोधिनीसहिता । [ ६३
सिद्धशुष्क पक्कबन्धैश्च । (२-१-४१) एतैः सप्तम्यन्तं प्राग्वत् । सांकाश्यसिद्धः । भ्रातपशुष्कः । स्थास्त्रीपक्कः । चक्रबन्धः । ७१६ ध्वाङ्क्षेण क्षेपे (२-१-४२) ध्वाङ्क्षवाचिना सह सप्तम्यन्तं समस्यते निन्दायाम् | तीर्थे ध्वाङ्क्ष इव तीर्थध्वाङ्क्षः। तीर्थकाकः । ७२० कृत्यैर्ऋणे । (२-१-४३) सप्तम्यन्तं कृत्यप्रत्ययान्तैः सह प्राग्वदावश्यके । मासेदेयम् ऋणम् । ऋणग्रहणं नियोगोपलक्षणार्थम् ।
इत्यधेः कर्मप्रचनीयत्वम् । 'यस्मादधिकम् -' इति सप्तमी । तदन्तस्य अधिना समासः, सुब्लुक्, 'अषडक्ष -' इति अध्युत्तरपदत्वात् खः, ईनादेशः, ईश्वराधीन इति रूपम् । सिद्धशुष्क । सप्तमीत्यनुवर्तते । तदाह – एतैस्सप्तम्यन्तं प्राग्वदिति । सांकाश्यसिद्ध इति । संकाशेन निर्वृत्तं नगरं साङ्काश्यम्, तत्र सिद्ध उत्पन्नो ज्ञातो वेत्यर्थः । श्रतपशुष्क इति । तपे शुष्क इति विप्रहः । स्थालीपक्व इति । स्थाल्यां पक्व इति विग्रहः । चक्रबन्ध इति । चक्रे बन्ध इति विग्रहः । शौण्डादिगणे एतेषां पाठाभावात् । पृथगुक्तिः । ध्याज्ञेण क्षेपे । ध्वांक्षेत्यर्थग्रहणम्, व्याख्यानात् । तदाह—ध्वाङ्क्षवाचिना सह सप्तम्यन्तं समस्यत इति । क्षेपपदं व्याचष्टे – निन्दायामिति । तीर्थे ध्वाङ्क्ष इव तीर्थध्वाङ्क्ष इति । ध्वाङ्ङ्क्षः काकः, स इव यो गुरुकुले चिरं न तिष्ठति स इत्यर्थः । एवं हि निन्दा भवति । अर्थग्रहणस्य प्रयोजनमाह - तीर्थकाक इति । कृत्यैर्ऋणे । सप्तमीत्यनुवर्तते । कृत्य ग्रहणेन प्रत्ययग्रहणपरिभाषया कृत्यसंज्ञक प्रत्ययान्तग्रहणम् । ' ऋणपदमावश्यकोपलक्षणम्' इति भाष्यम्, तदाह-- सप्तम्यन्तं कृत्यप्रत्ययान्तैः सह प्राग्वदावश्यक इति । मास इति । सामीप्याधिकरणत्वे सप्तमी । मासाव्यव
शेषः । 'विभाषाञ्चे:-' इति विभाषाग्रहणसामर्थ्यादिति वक्ष्यमाणत्वात् । अन्तः शब्दोऽत्र पठ्यते, स चाधिकरणप्रधानः, मध्ये इत्यर्थात् । तद्योगे श्रवयविन आधारत्वविवक्षायां सप्तमी, यथा वृक्षे शाखेति । वने अन्तर्वमान्तर्वसति । यस्त्वधिकरणत्वमात्रवृत्तिरन्तः शब्दस्तस्य तु (विभक्त्यर्थे' इति नित्यमव्ययीभावः । 'प्रतिरन्तःशर-' इति णत्वम् । वने इति अन्तर्वणम् । यत्तु तत्पुरुषस्य वैकल्पिकत्वात्पक्षे अव्ययीभाव इति हरदत्तेनोक्लम्, तच्चिन्त्यम्, तत्पुरुषस्य वैकल्पिकत्वेऽपि अव्ययीभावस्य नित्यत्वाद्वने अन्तरिति तदुक्तस्वपदविग्रहस्यायोगात् । किं च विभक्त्यर्थमात्रवृत्तेरव्ययीभावः, वचनग्रहणसामर्थ्यात् । अन्यथा वृक्षस्योपरीत्यादावतिप्रसङ्गः स्यात् । ततश्च मध्यवाचिनः प्रसङ्ग एव नास्तीति दिक् । शौण्ड । धूर्त । कितव । व्याड । प्रवीण । संवीत । अन्तर । अधि । पटु । पण्डित। कुशल । चपल । निपुण । वृत् । कृत्यैः । कृत्प्रत्ययान्तेनैव समास इष्यते । 'अल्पशः' इत्यनुवृत्तेः । बहुवचनं तु प्रकृतिभेदाभिप्रायम् । तथैवो
1