________________
६२ ]
सिद्धान्तकौमुदी। [तत्पुरुषसमासतत्पुरुषस्योपसंख्यानम्' (वा १२८८)। वे पहनी जातस्य यस्य स व्यहजावः । 'अहोऽह-' (सू.१०) इति वषयमाणोऽहादेशः । पूर्वत्र तु 'न संख्यादेः समाहारे' (सू ०१३) इति निषेधः ७१७ सप्तमी शौण्डैः । (२-१-४०) ससम्यन्तं शौण्डादिभिः प्राग्वद्वा । अक्षेषु शौण्डोऽक्षशौण्डः । अधिशब्दोऽत्र पव्यते । 'अध्युत्तरपदात्-' (सू २०७६) इति सः । ईश्वराधीनः । ७१८ शब्दे उत्तरपदे संपन्ने पूर्वयोस्सुबन्तयोढिगुसमासप्रवृत्तिर्वक्तव्या । स च समासस्त्रयाणां 'कालाः परिमाणिना' इति पूर्वसूत्रेण न सम्भवति, 'सुप्सुपा' इत्येकत्वस्य विवक्षितत्वात् । अत उत्तरपदेन परिमाणिना परिच्छेद्यवाचिना परनिमित्तभूतेन हेतुना द्विगोस्सिद्धये बहूनां तत्पुरुषस्योपसंख्यानं वक्तव्यमित्यर्थः। उत्तरपदभूतपरनिमित्तकद्विगुसिद्धये त्रिपदतत्पुरुषो वाच्य इति यावत् । 'सुप्सुपा' इत्येकत्वं विवक्षितमित्यत्र इदमेव लिङ्गम् । द्वे अहनी इति । द्वे अहनी जातस्येति विग्रहे त्रयाणां समासे सुब्लुकि यहन् जात इति जातशब्दे उत्तरपदे परे द्वि अहन् इत्यनयोः 'तद्धितार्थ-' इति द्विगु. समासे 'राजाहस्सखिभ्य-' इति टचि 'अहोऽह एतेभ्यः' इत्यहादेशे यह्नजात इति रूपमित्यर्थः । अत्र पूर्वयोर्द्विगुतत्पुरुषत्वाभावे टच् अह्लादेशश्च न स्यातामिति भावः। ननु द्वयोरहोस्समाहारो यह इति कथं पूर्वमुक्तम् । तत्राप्यनादेशप्रसङ्गादित्यत । आह-पूर्वत्र त्विति । निषेध इति । अनादेशनिषेध इत्यर्थः । इति षष्ठीसमासनिरूपणम् । . सप्तमी शौण्डैः। शौण्डादिभिरिति । बहुवचननिर्देशाद् गणपाठाच्च शौण्डशब्दस्तदादिपरः । अक्षेषु शौण्ड इति । शौण्डः क्रियाकुशलः । वैषयिकाधिकरणत्वे सप्तमी । अक्षविषयकक्रीडाकुशल इत्यर्थः । अत्रेति । शौण्डादावित्यर्थः। ईश्वराधीन इति । प्रपञ्च इति शेषः । 'ईश्वरे अधि' इति विग्रहः । 'अधिरीश्वरे' त्रिपदतत्पुरुषो वक्तव्य इत्यर्थः । 'सुप्सुपा' इत्येकत्वस्य विवक्षितत्वादप्राप्ते वचनम् । अस्मादेव वार्तिकारम्भात् 'सुप्सुपा' इत्येकत्वं विवक्षितमिति ज्ञायते । अहादेश इति। त्रिपदतत्पुरुषे सत्युत्तरपदे परतः 'तद्धितार्थ-' इत्यवान्तरद्विगौ सतीति भावः। पूर्वति। यहजात इत्यत्रेत्यर्थः । सप्तमी शौण्डैः । बहुवचननिर्देशागणपाठसामर्थ्याच्च श्रा द्यर्थावगतिरित्यभिप्रेत्याह-शौण्डादिभिरिति । अक्षशौण्ड इति । शौण्डः प्रवीणः । इह श्रासक्तिरूपा क्रिया वृत्तावन्तर्भवतीति तद्द्वारकं च सामार्थ्यम् । यथा दध्योदनगुडधानादौ उपसेचनमिश्रीकरणादिद्वारा सामर्थ्यम् । तेन कारकाणां क्रिययैव संबन्ध इति नियमस्य न व्यभिचारः। अधिशब्द इति । आधेयप्रधान इति शेषः । अधिकरणप्रधानस्य त्वव्ययीभाव एव, अधिहरीति यथा ।ख इति । नित्यमिति