________________
प्रकरणम् १८] बालमनोरमा-तत्त्वबोधिनीसहिता। [६१ यहः । व्यहो जातस्य इति विग्रहे 'उत्तरपदेन परिमाणिना द्विगोः सिद्धये बहूना नम् । मासजातो दृश्यतामित्यादौ जातस्यैव दर्शनकर्मत्वादिप्रतीतः। विशेषणविशेष्यभावस्तु एकार्थीभावसम्बन्धसाध्यः । एतदेवाभिप्रेत्य मूले क्वचित् पुस्तके मासो जातस्य यस्य स इति पठितम् । तत्र विग्रहे जातस्येति परिच्छेद्यपरिच्छेदकभावे षष्ठी । जातपरिच्छेदको मास इति विग्रहवाक्ये बोधः । मासपरिच्छेद्यो जात इति समासाद्बोधः । तत्र मासस्तावज् जननं साक्षात् परिच्छिनत्ति । जननाश्रयं तु देवदत्तं जननद्वारा परिच्छिनत्ति । तथा च मासपरिच्छेद्यजननाश्रयो देवदत्त इति समासाद्बोधः फलति । षष्ठीसमासापवादोऽयम् । षष्ठीसमासे तु जातमास इति स्यात् । न च मासो जातस्य यस्य स मासजात इति बहुव्रीहिणैवैतत्सिद्धमिति वाच्यम् , समानाधिकरणानामेव बहुव्रीहिविधानात्, 'निष्ठा' इति जातशब्दस्य पूर्वनिपातापत्तेश्च । 'जातिकालसुखा. दिभ्यः परा निष्ठा वाच्या' इति जातशब्दस्य परनिपातस्तु न, सुखादावस्य पाठकल्पनायां प्रमाणाभावादित्यलम् । द्वयहो जातस्येति । 'तद्धितार्थ-' इति समाहारे द्विगुः । 'राजाहस्सखिभ्यः' इति टच् । 'रात्राहाहाः पुंसि' इति पुंस्त्वम् । उत्तरपदेनेति । 'तद्धितार्थ-' इति सूत्रभाष्ये इदं वार्तिकं पठितम् । तेन हि सूत्रेण उत्तरपदे परे दिक्संख्ययोस्सुबन्तेन द्विगुसमासो विहितः । उत्तरशब्दश्च समासस्य चरमावयवे रूढः । ततश्च द्वे अहनी जातस्य यस्येति विग्रह त्रयाणां समासे सति जातप्राप्ते वचनम् । ननु जातः पुरुषस्तस्य तु हस्तवितस्त्यादिकं परिच्छेदकम् , न तु कालः, तस्य क्रियामात्रपरिच्छेदकत्वादिति चेत्, अत्राहुः-साक्षाकियां परिच्छिन्दन्नपि कालस्तद्द्वारा देवदत्तं परिच्छिनत्ति । यस्य हि जननादूर्ध्व मासो गतः स मासजात इति व्यवह्रियते । तत्र व्यवहारकालजननक्षणयोरन्तरालभावी मासो जननद्वारा जातमपि परिच्छिनत्त्येवेति । इह विग्रहे षष्ठीनिर्दिष्टस्यापि वृत्तौ प्राधान्य द्योतयितुं 'यस्य सः' इत्युक्तम् । अलौकिक तु प्रक्रियावाक्ये नास्य प्रवेशः । एवं बहुव्रीहावपीति बोध्यम् । ननु 'जातस्य मासः' इति विग्रहे वृत्तौ मासशब्दस्य पूर्वनिपातार्थ. मेतत्सूत्रारम्भस्यावश्यकत्वेऽपि मासविशेष्यकबोध एवात्रोचित इति किमनेन 'जातस्य यस्य सः' इति कथनेनेति चेत्, अत्राहुः—'मासजातो मृतः' इत्यादिप्रयोगानुरोधेन विग्रहे 'यस्य सः' इति स्वीक्रियत इति । मासजात इति । यद्यपि मासो जातो यस्येति बहुव्रीहिणापीदं सिध्यति, 'जातिकालसुखादिभ्यः परा निष्ठा वाच्या' इति वचनात् । न च खरे विशेषः, 'वा जाते' इत्यन्तोदात्तत्वस्यापि सिद्धेः। तथापि षष्ठीसमासा. पवादार्थमिदमारम्भणीयमेव । किं च मासो जातवतो यस्य.स मासजातवानित्येतदर्थमपीदमवश्यारम्भणीयमिति दिक् । उत्तरपदेनेति । परिमाण्युत्तरपदहेतुकद्विगुसिद्धये