________________
६०]
सिद्धान्तकौमुदी। [तत्पुरुषसमासमिधाद्वितीयम् । ७१५ प्राप्तापन्ने च द्वितीयया। (२-२-४ ) पक्षे 'द्वितीया श्रित-(सू ६८६) इति समासः । प्राप्तो जीविकां प्राप्तजीविकः, जीविकाप्रातः । प्रापन्नजीविकाः, जीविकापन्नः । इह सूत्रे 'द्वितीयया अ' इति छित्त्वा प्रकारोऽपि विधीयते । तेन जीविकां प्राप्ता स्त्री प्राप्तजीविका। पापन्नजीविका । ७१६ कालाः परिमाणिना । (२-२-५) परिच्छेद्यवाचिना सुबन्तेन सह कालाः समस्यन्ते । मासो जातस्य मासजातः । ब्यहजातः। द्वयोरहोः समाहारो अन्यथा अन्यतरस्याग्रहणवैयर्थ्यादिति भावः । इत्येकदेशिसमासनिरूपणम् । प्राप्तापन्ने च द्वितीयया । प्राप्त, आपन्न एतौ शब्दौ द्वितीयान्तेन समस्येते इत्यर्थः । चकारो द्वितीयासमाससमुच्चयार्थः । तदाह--पक्ष इति । वस्तुतस्तु 'द्वितीया श्रित-' इति सूत्रे 'प्राप्तापनशब्दाभ्यां द्वितीयायाः समासविधानमपि निरवकाशमेव इति तत्समुच्चयस्य सिद्धत्वात् चकारो न तत्समुच्चयार्थः' इति भाष्ये स्थितम् । तत्र प्रकृतसूत्रेण समासे प्राप्तापन्नयोः पूर्वनिपातः । 'द्वितीयाश्रित-' इति समासे तु द्वितीयान्तस्य पूर्वनिपातः । तदाह-प्राप्तजीविक इत्यादि । अथ जीविकां प्राप्ता स्त्री जीविकामापन्ना स्त्री इति विग्रहे प्रकृतसूत्रेण समासे सति पूर्वपदयोरकारमन्तादेशं साधयितुमाह-इह सूत्र इति । आकारोऽपीति । प्राप्तापन्ने द्वितीयया समस्येते, तयोरकारोऽन्तादेशश्चेत्यर्थलाभादिति भावः । तेनेति । प्राप्तापन्नयोराकारस्यान्तस्य स्थाने अकारविधानेनेत्यर्थः । कालाः परिमाणिना । परिमाणिपदं व्याचष्टेपरिच्छेद्यवाचिनेति । काला इति बहुवचनात् कालविशेषवाचका इत्यर्थः । मासो जातस्य मासजात इति । अत्र विग्रहे मासः प्रधानम् । समासे तु जातः प्रधामयुक्तमिति ध्वनयन्नाह-निषेधं बाधित्वेति।प्राप्तजीविक इति । 'गोस्त्रियो:-' इत्युपसर्जनहखः । 'द्विगुप्राप्तापन्ना-' इति वक्ष्यमाणेन परवल्लिङ्गनिषेधः । न चेदं बहुव्रीहिणा गतार्थमिति शङ्कथम् , स्वरे विशेषात् । प्राप्तसुख इत्यादौ निष्ठान्तस्य 'जातिकालसुखादिभ्यः-' इति परनिपातापत्तेश्च । प्राप्तापने च-' इति चकारेण विधेयसमुच्चयार्थेनाकारप्रश्लेषानुमानात् । प्राप्तापन्ने समस्येते अच अत्वं च तयोः स्यादिति भाष्ये स्थितम् । तत्र चकारात्पूर्वमेवाकारं छित्त्वा सौत्रत्वात्प्रकृतिभावो नेति प्राश्चः । इमं क्लेशं परिहरनाह--द्वितीयया अ इति ।प्राप्ता स्त्रीति । एकादेशस्य पूर्वान्तत्वेन ग्रहणाल्लिङ्गविशिष्टपरिभाषया वा टाबन्तयोरपि प्राप्तापन्नयोः समासः । कालाः परिमाणिना। परिमीयते परिच्छिद्यते येन तत्परिमाणं परिच्छेदकम् , तद्वान्परिमाणी तदाह-परिच्छेधवाचिनेति । काला इति । कालविशेषवाचका इत्यर्थः । सूत्रे बहुवचननिर्देशात्कालसामान्यस्यापरिच्छेदकत्वाच्च । मासो जातस्येति । षष्ठीसमासे