________________
प्रकरणम् १८ ]
बालमनोरमा-तत्त्वबोधिनीसहिता । [ ५६
द्रव्यैक्य एव । अर्धं पिप्पलीनाम् । ७१४ द्वितीयतृतीयचतुर्थतुर्याण्यन्यतरस्याम् । ( २-२-३ ) एतान्येकदेशिना सह प्राग्वद्वा । द्वितीयं भिचाया द्वितीभिक्षा | 'एकदेशिना ' किम्-द्वितीयं भिक्षाया भिक्षुकस्य । अन्यतरस्याग्रहयसामर्थ्यात् 'पूरणगुण-' ( सू ७०५ ) इति निषेधं बाधित्वा पचे षष्ठीसमासः ।
किन्तु ‘षष्ठी' इत्येव समास इति षष्ठयन्तस्य पूर्वनिपातः । द्रव्यैक्य एवेति । एकाधिकरण इत्यनुवर्तत एवेत्यर्थः । अर्ध पिप्पलीनामिति । अत्र द्रव्यैक्याभावान्न समासः । सति समासे अर्धपिप्पलीत्येव स्यात्, विशेष्यैक्यात् । इदं सूत्रं 'परवल्लिङ्गम् -' इति सूत्रभाष्ये प्रत्याख्यातम् । द्वितीयतृतीय । द्वितीयं भिक्षाया इति विग्रहोऽयम् । भिक्षाया द्वितीयमर्धमित्यर्थः । द्वितीयभिक्षेति । द्वितीयशब्दस्य प्रथमानिर्दिष्टत्वात् पूर्वनिपातः । 'परवल्लिङ्गम् -' इति स्त्रीत्वम् । द्वितीयं भिक्षाया भिक्षुकस्येति । भिक्षाया द्वितीयं भागं भिक्षुकस्येत्यन्वयः । भिक्षाया इत्यवयवषष्ठी द्वितीयमित्यत्रान्वेति । द्वितीयमित्येतत्तु भिक्षुकस्येत्यत्र कर्मत्वेनान्वेति । 'न लोक- ' इति निषेधान्न षष्ठी । अत्र द्वितीयमित्यस्य भिक्षुकस्येत्यनेन समासो न भवति । द्वितीयं प्रति भिक्षुकस्य एकदेशित्वाभावादित्यर्थः । ननु विभाषाधिकारेण विकल्पे सिद्धे अन्यतरस्याङ्ग्रहणं व्यर्थमित्यत आह--- अन्यतरस्यामिति । अन्यतरस्यान्प्रहणसामर्थ्यात् पक्षे षष्ठीसमास इत्यन्वयः । अन्यथा षष्ठयपवादभूतेनानेन समासेन मुक्के उत्सर्गो न प्रवर्तेत । महाविभाषाधिकारे 'अपवादन मुक्ते उत्सर्गो न प्रवर्तते' इति 'पारे मध्ये षष्ठया वा' इति वाग्रहणेन ज्ञापितत्वादिति भावः । ननु ' पूरणगुण-' इति निषेधात् कथमिह षष्ठीसमास इत्यत आह-- पूरणगुणेति निषेधं बाधित्वेति । परवृल्लिङ्गत्वात्स्त्रीत्वम् । अर्ध पिप्पलीनामिति । सति समासे अर्धपिप्पलीत्येव स्यात्, विशेष्यैक्यात्, परवल्लिङ्गमिति लिङ्गातिदेशेऽपि वचनातिदेशाभावाच्चेति भावः । 'अर्धपिप्पल्यः' इति प्रयोगस्तु 'अर्धानि पिप्पलीनाम्' इति विग्रहे साधुश्चेदपि खण्डसमुच्चये साधुरेव, अर्धं पिप्पल्या अर्धपिप्पली, अर्धपिप्पली च अर्धपिप्पली चेत्यादिविग्रहात् । एकदेशिना किम्, अर्धं पशोर्देवदत्तस्य । अत्र देवदत्तः स्वामी, न त्ववयवीति न तेन समासः । इदं सूत्रं 'परवल्लिङ्गम् -' इत्यत्र भाष्ये प्रत्याख्यातम् । तद्यथा अर्ध पिप्पलीति हि कर्मधारयेण सिद्धम्, 'समुदाये दृष्टा: शब्दा अवयवेष्वपि वर्तन्ते' इति न्यायात् । समप्रविभागादन्यत्र तवाप्येषैव गतिः, 'अर्धाहारः ' 'अर्धोक्तम्' 'अर्धविलो - कितम्' इत्यादिप्रयोगदर्शनात् । न च समप्रविभागे षष्ठीसमासं बाधितुमिदं सूत्रमिति वाच्यम्, षष्ठीसमासस्यापीष्टत्वात् । श्रत एव कालिदासः प्रयुङ्क - - ' प्रेम्णा शरीरार्ध - हरा हरस्य' इति । द्वितीयतृतीय । षष्ठीसमासापवादोऽयं योग इति वृत्तिकृतोक्