________________
सिद्धान्तकौमुदी। [तत्पुरुषसमास१७३)। एकदेशिसमासविषयकोऽयमुपसर्जनसंज्ञानिषेधः । तेन 'पञ्चखट्वी' इत्यादि सिध्यति । अधं पिप्पल्या अर्धपिप्पली । 'क्रीबे' किम्-प्रामार्थः ।
अवयविवाचिना समस्यत इत्यर्थः । अर्धशब्दस्य पूर्वाद्यनन्तर्भावात् पूर्वेण न प्राप्तिः । ननु अर्ध पिप्पल्या अर्धपिप्पलीत्युदाहरणं वक्ष्यति । तत्र अर्ध पिप्पल्या अर्धपिप्पली, अर्धेन पिप्पल्या अर्धपिप्पल्या, अर्धाय पिप्पल्या अर्धपिप्पल्यै, अर्धात्पिप्पल्या अर्धपिप्पल्याः, अर्धस्य पिप्पल्या अर्धपिप्पल्याः, अर्धे पिप्पल्या अर्धपिप्पल्याम् इति विग्रहेषु पिप्पलीशब्दस्य नियतविभक्तिकतया 'एकविभक्ति चापूर्वनिपाते' इत्युपसर्जनत्वात् 'गोस्त्रियोः-' इति ह्रस्वः स्यादित्यत श्राह-एकविभक्ताविति। 'एकविभक्ति चापूर्वनिपाते' इति सूत्रे 'अषष्ठयन्तम्' इति वक्तव्यमित्यर्थः। ततश्च पिप्पलीशब्दस्य षष्ठयन्तत्वानोपसर्जनत्वमिति न ह्रख इत्यर्थः । नन्वय सति पञ्चानां खट्वानां समाहारः समाहारं समाहारणेत्यादिविग्रहेषु खम्वाशब्दस्य नियतविभक्तिकत्वेऽपि षष्ठयन्तत्वाद् अनुपसर्जनत्वाद् ‘गोस्त्रियोः-' इति ह्रखाभावे अदन्तत्वाभावेन 'द्विगोः' इति डीबभावे पञ्चखट्वेति स्यात् , पञ्चखट्वीति न स्यादित्यत आह--एकदेशिसमासविषयकोऽयमिति । 'अपथं नपुंसकम्' इति सूत्रभाष्ये पञ्चखट्वीत्युदाहरणमत्र लिङ्गमिति भावः । अर्धपिप्पलीति । प्रथमानिर्दिष्टमित्यर्धशब्दस्योपसर्जनत्वात् पूर्वनिपातः । पिप्पलीशब्दस्य तु विग्रहे नियतविभक्तिकत्वेऽपि 'एकविभक्तौ-' इति निषेधादुपसर्जनत्वाभावान ह्रख इति भावः । प्रामार्ध इति । ग्रामस्यार्ध इति विग्रहः । ग्रामस्यांश इत्यर्थः । अर्धशब्दस्य समांशवाचित्वाभावेन नित्यनपुंसकत्वाभावान्नायं समासः ।
एवार्धशब्दे पठनीये 'अर्धम्' इति योगविभागेन निर्देशानपुंसकत्वे लब्धे, पुनर्नपुंसकग्रहणादित्याशयेन व्याचष्टे-नित्यं क्लीबे स इति । यो नित्यनपुंसकलिङ्गः स इत्यर्थः । प्राग्वदिति । एकत्वविशिष्टेनावयविना समस्यत इत्यर्थः । अन्ये तु व्याचख्युः-'अर्धम्' इति निर्देशादेव नपुंसकत्वे सिद्धे नपुंसकग्रहणं 'सूत्रेषु लिङ्गनिर्देशो न विवक्षितः' इति ज्ञापयितुम् , तेन 'तस्येदम्' इत्यादि लिङ्गत्रयेऽपि भवतीति । अर्धपिप्पलीत्यत्र 'एकविभक्ति चापूर्वनिपाते' इत्युपसर्जनसंज्ञायां 'गोत्रियोः' इति हस्खः स्यादित्याशङ्कय समाधत्ते--अषष्ठयन्तवचनमिति । तेन पिप्पलीशब्दस्यानुपसर्जनत्वान्न दोष इति भावः । नन्वेवं पञ्चानां खट्वानां समाहारः पञ्चखट्वीति न सिद्धयेत् , उपसर्जनसंज्ञानिषेधेन खट्वेत्याकारे ह्रखाप्रवृत्तेरदन्तत्वाभावेन 'द्विगोः' इति पोsप्रवृत्तेः, अत आह-एकदेशिसमासविषयकोऽयमिति। 'पञ्चखट्वी' इति भाष्योदाहरणमेव 'अषष्ठयन्त' इत्यस्य संकोचे लिङ्गमिति भावः। अर्धपिप्पलीति ।