________________
प्रकरणम् १८ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [५७ न स्वहेव । ज्ञापकस्य सामान्यापेक्षत्वात् । तेन मध्यरात्रः, उपारताः पश्चिमरानगोचरा इत्यादि सिद्धमिल्याहुः । ७१३ अर्ध नपुंसकम् । (२-२-२) समांशवाच्यर्धशब्दो नित्यं क्लीबे, स प्राग्वत् । 'एकविभक्कावषष्ठ्यन्तवचनम्' (वा देशविकल्प उक्तः । सायाह्नि, सायाहनि, सायाह्ने इत्युदाहरणम् । तत्र अह्नः साय इति विग्रहे यदि सायशब्दस्य पूर्वाद्यप्रविष्टत्वादहशब्देन समासो न स्यात् तदा 'षष्ठी' इति सूत्रेण अहन्शब्दस्य षष्ठयन्तस्य सायशब्देन समासे सति षष्ठयन्तस्यैव समासशास्त्रे प्रथमानिर्दिष्टत्वात् पूर्वनिपाते सति सायशब्दात् परस्याह्नशब्दस्य अहन्नादेशविधानं निर्विषयं स्यात् । अतः 'सर्वोऽप्येकदेशोऽह्ना समस्यते' इति विज्ञायत इत्यर्थः । मध्याह्न इति । अहो मध्यमिति विग्रहे अयं समासः । 'राजाहस्सखिभ्यष्टच्' इति टच् । 'अहोऽह्न एतेभ्यः' इत्यह्लादेशः । सायाह्न इति । अह्नः साय इति विग्रहः । मध्याह्नवत् । ननु 'सर्वोऽप्येकदेशः कालेन समस्यते' इत्ययुक्तम् , 'संख्याविसाय-' इति सूत्रे अहन्शब्दस्यैवोपात्ततया तदितरकालवाचिना सर्वस्यैकदेशस्य समासज्ञापनानुपपत्तेरित्यत आह--ज्ञापकस्येति । अहन्शब्देन सह सायशब्दस्य एकदेशिसमासं सिद्धवत्कृत्य सायशब्दादहशब्दोपादानात् सर्वेणापि अवयविवृत्तिकालवाचिना सर्वस्यैकदेशस्य समासो ज्ञाप्यते, ज्ञापकस्य सामान्यापेक्षत्वात् । नत्वहन्शब्देन सायशब्दस्यैव पूर्वाद्यप्रविष्टत्वेऽपि समासो ज्ञाप्यत इति भावः । मध्यरात्र इति । रात्रेमध्यमित्यर्थः। पश्चिमरात्रेति। रात्रः पश्चिममिति विग्रहः । 'अहस्सर्वेकदेश-' इत्यच्समासान्तः । अर्ध नपुंसकम् । अर्धमिति नपुंसकलिङ्गनिर्देशादेव नपुंसकत्वे लब्धे पुनर्नपुंसकप्रहणं नित्यनपुंसकलिङ्गस्य ग्रहणार्थमित्यभिप्रेत्याह--समांशवाच्यर्धशब्दोनित्यं क्लीव इति । वर्तत इति शेषः। 'वा पुंस्योऽध समेंऽशके' इति कोशादिति भावः । अंशसामान्यवाची अर्धशब्दः पुंसि वा नपुंसके वा भवति । समे त्वंशे अर्धशब्दो नपुंसकलिङ्ग एवेत्यर्थः । भाष्ये तु समप्रविभागे नपुंसकलिङ्गोऽर्धशब्दः । अंशसामान्यवाची तु पुँल्लिङ्ग इत्युक्तम् । स प्राग्वदिति । स नित्यनपुंसकलिङ्गः अर्धशब्दः ऽपीति । पूर्वादिभिन्नोऽपीत्यर्थः । ज्ञापकादिति । अन्यथा अहस्य सायपूर्वत्वं न स्यादिति भावः । मध्याह्न इति । 'राजाहःसखिभ्यः-' इति टच् । 'अहोह-' इत्याहा. देशः । अयं चादेशो मध्याह्नसायाह्नशब्दयोरूर्ध्वकायवत्कर्मधारयेण न निर्वहति, संस्यैकदेशिसमासप्रयुक्तत्वात् , अतोऽत्र ज्ञापकाश्रयणं युक्तमेवेति बोध्यम् । इत्याहुरिति। न चैवं दिनमध्यो रात्रिमध्य इत्यादि न सिध्येदिति वाच्यम् , ज्ञापकसिद्धस्यासार्वत्रिकत्वात् । अर्ध नपुंसकम् । खण्डवाच्यर्धशब्दो न नित्यनपुंसकः, प्रामा? नगराध इति यथा । समांशवाची तु नित्यनपुंसकः, स एवेह गृह्यते, 'पूर्वापरा-' इति पूर्वसूत्र