________________
सिद्धान्तकौमुदी। [तत्पुरुषसमासअपरकायः । एकदेशिना किम्-पूर्व नाभेः कायस्य । एकाधिकरणे किम्-पूर्वरछात्राणाम् । सर्वोऽप्येकदेशोऽहा समस्यते । 'संख्याविसाय-' (स् २३८) इति ज्ञापकात् । मध्याहः । सायाह्नः । केचित्तु सर्व एकदेशः कालेन समस्यते रुत्सर्गो न प्रवर्तते' इति 'पारे मध्ये षष्ठया वा' इत्यत्रोक्तम् । ततश्च एकदेशिसमासाभावे षष्ठीसमासो न भवति । अपरकाय इति । अपरं कायस्येति विग्रहः । अधरकायः । उत्तरकायः । एकदेशिना किमिति । एकद्रव्यवाचिना पूर्वादयः समस्यन्त इत्येवास्त्वित्यर्थः । पूर्व नामे कायस्येति । अत्र नाभेरिति पूर्वशब्देऽन्वेति । दिग्योगे पञ्चमी । नाभ्यपेक्षया यत् पूर्वमधं तत् कायावयवभूतमित्यर्थः । अत्र नाभिशब्दस्य नाभ्यपेक्षया पूर्वाशेऽन्वयः । अत्र पूर्वस्यांशस्य नाभिरवधिरेव, न त्ववयवी । अतो नाभिशब्देन पूर्वशब्दस्य समासो न भवतीत्यर्थः । पूर्वश्छात्राणामिति । अत्र छात्रशब्दः छात्रसमुदायपरः । उद्भूतावयवसमुदायापेक्षं बहुवचनम् । अवयवावयविभावसम्बन्धे षष्ठी । छात्रसमुदायस्य पूर्वमर्धमित्यर्थः। अत्र छात्रसमुदायस्य एकत्वेऽपि उद्भूतावयवकतया बहुत्वादेकत्वसंख्यावैशिष्टयाभावाम समास इति भावः । ननु अहो मध्यं मध्याह्न इत्यत्र कथमेकदेशिसमासः । मध्यशब्दस्य पूर्वादिश्वनन्तर्भावादित्यत आह-सर्वोऽप्येकदेश इति । पूर्वादिभिन्नोऽपीत्यर्थः । शापकादिति । 'तत्पुरुषस्य-' इति 'अहस्सर्वैकदेशसंख्यातपुण्याच्च-' इति च प्रकृते 'अहोऽह एतेभ्यः' इत्येकदेशवाचकात् परस्य अहन्शब्दस्य अह्लादेशो विधीयते । ततश्चाह्नः साय इति विग्रहे अवयविवृत्तिना अहन्शब्देन षष्ठयन्तेन अवयववृत्तिसायशब्दस्य तत्पुरुषसमासे सति प्रथमानिर्दिष्टत्वात् सायशब्दस्य पूर्वनिपाते सति एकदेशवृत्तिसायशब्दात् परस्य अहन्शब्दस्य अह्लादेशे 'रात्राहाहाः पुंसि' इति पुंस्त्वे सायाह इति भवति । तस्मात् सप्तम्येकवचने परे 'संख्याविसाय-' इति सायशब्दपूर्वकस्य अह्नशब्दस्य अहन्नासूत्रमिति भावः । पूर्व कायस्येति । यद्यपि 'अन्यारात्-' इति सूत्रे दिशि दृष्टः शब्दा दिक्शब्द इति व्याख्यानेन संप्रत्यदिग्वृत्तिनापि योगे पञ्चमी स्वीकृतेति षष्ठीह दुर्लभा, तथापि तस्य परमानेडितम्' इति लिङ्गाद् 'अवयववाचिदिकशब्दयोगे पञ्चमी न' इत्युक्तत्वात् षष्ठयेव भवतीति भावः। पूर्व नामेरिति । नाभेर्यः पूर्वो भागः स कायस्यावयव इत्यर्थः । नाभेरिति दिग्योगलक्षणा पञ्चमी। तेनात्र पूर्वस्य भागस्य नाभिरवधिः, न त्वेकदेशीति नाभ्या सह समासो नेत्यर्थः । कायेन तु स्यादेव 'पूर्वकाबो नाभेः' इति । पूर्वशब्दस्य नित्यसापेक्षत्वात् प्रधानत्वाच्च । पूर्वश्छात्राणामिति । नासौ निर्धारणे षष्ठी, किंतु समुदायसमुदायिसंबन्धे । बहुवचनं तूभृतावयवभेदसमुदावविवक्षया । ततश्छात्राणामेकदेशित्वे सत्यप्येकत्ववैशिष्टपाभावान समासः । सर्वो