SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् १८ ] बालमनोरमा-तत्त्वबोधिनीसहिता । [ ५५ कर्तरि' ( सू ७०६ ) इति निषेधे प्राप्ते वचनम् । । ७१२ पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे । ( २-२ - १ ) श्रवयविना सह पूर्वादयः समस्यन्ते, एकत्व संख्याविशिष्टश्चेदवयवी । षष्ठीसमासापवादः । पूर्वं कायस्य पूर्वकायः । मिदमित्यत आह-तत्रेति । तत्र तस्मिन् उदाहरणद्वये क्रीडाबोधक उद्दालकपुष्पभजिकेत्यत्र विभाषाधिकारात् षष्ठीसमासविकल्पे प्राप्ते, जीविका बोध के तु दन्तलेखक इत्यत्र 'तृजकाभ्याम् -' इति षष्ठीसमासनिषेधे प्राप्ते इदं सूत्रमारब्धमित्यर्थः । पूर्वापर । 'पूर्वापराधरोत्तम्' इति समाहारद्वन्द्वात् प्रथमैकवचनम् । एकदेशशब्दोsara रूढः । एकदेशोऽस्यास्तीत्येकदेशी अवयवी, तेनेति लभ्यते । अधिकरणं द्रव्यम् । एकमधिकरणम् एकाधिकरणम् । एकत्वविशिष्टद्रव्ये वर्तमानेन श्रवयविवा - चकसुबन्तेन पूर्वापराधरोत्तरशब्दाः सुबन्ताः समस्यन्ते स तत्पुरुष इत्यर्थः । फलित. माह - श्रवयविना सहेत्यादिना । ननु पूर्वश्वासौ कायश्चेति कर्मधारयेणैव पूर्व - काय इत्यादि सिद्धम् । भक्त्या कायशब्दस्य कायावयववाचित्वेन सामानाधिकरण्योपपत्तेरित्यत आह – षष्ठीसमासापवाद इति । पूर्वं कायस्येति विग्रहे ' षष्ठी' इति सूत्रेण समासे सति षष्ठयन्तस्य समासविधौ प्रथमानिर्दिष्टत्वात् पूर्वनिपातः स्यात् । तन्निवृत्त्यर्थमिदं वचनमित्यर्थः । पूर्व कायस्येति । अत्र पूर्वं कायस्येति विग्रहवाक्यम् । अर्धमिति गम्यम् । विशेष्याभिप्रायं नपुंसकत्वम् । 'तस्य परमाम्रेड - तम्' इति निर्देशादवयववृत्तिदिक्शब्दयोगे पञ्चम्यभावात् षष्ठी । पूर्वकाय इति । पूर्वशब्दस्य समासविधौ प्रथमानिर्दिष्टत्वात् पूर्वनिपातः । ' परवल्लिङ्गम् -' इति पुंस्त्वमिति भावः । 'यत्र उत्सर्गापवादौ महाविभाषया विकल्प्येते तत्रापवादेन मुक्के पुन > नोक्तत्वादिति भावः । वामनस्तु – 'के जीविकार्थे' इत्यत्र 'अक' इति किम्, 'रमणीयकर्ता' इति प्रत्युदाहरन् जीविकायां तृचमिच्छति । भावे वलिति । भजनं भञ्जिका । पुष्पाणामिति कर्मणि षष्ठी । 'भावे' इत्युपलक्षणम्, अधिकरणे वुल्यपि बाधकाभावादिति मत्वा 'संज्ञायाम्' इति सूत्रे कृदन्ते मनोरमायामुक्तम् — 'उद्दालकः श्लेष्मातकस्तस्य पुष्पाणि भज्यन्ते यस्यां क्रीडायां सा उद्दालकपुष्पभञ्जिका' इति । पूर्वापर । एकदेशशब्दोऽवयवे रूढः । अत एव तस्य कर्मधारयत्वेऽपि ततौ मत्वर्थीयः । 'कृष्णसर्पवान्' इत्यत्रेव 'न कर्मधारयान्मत्वर्थीयः' इति निषेधस्य रूढेष्वप्रवृत्तेः यद्यपी 'एकगोपूर्वात्' इति ठञ् प्राप्तः, तथाप्यतएव निर्देशादिनिस्तदेतदाह-वयविनेति । नन्विदं सूत्रं व्यर्थम्, पूर्वकाय इत्यादिप्रयोगाणां कर्मधारयेणैव सिद्धेः, ऊर्ध्वकाय इतिवत्, 'समुदाये हि वृत्ताः शब्दा श्रवयवेष्वपि प्रवर्तन्ते' इति न्यायादत आह--षष्ठीसमासापवाद इति । तथा च कायपूर्व इत्याद्यनिष्टप्रयोगनिवृत्तये 1
SR No.006149
Book TitleLaghu Siddhant Kaumudi Part 02
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1982
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy