________________
५४ ]
सिद्धान्तकौमुदी। [तत्पुरुषसमासविधातुश्च कलहः' इति । शेषषष्टया समास इति कैयटः । ७१० कर्तरि च (२-२-१६) कर्तरि षष्ट्या अकेन न समासः। भवतः शायिका। नेह तृज. नुवर्तते । तद्योगे कर्तुरभिहितत्वेन कर्तृषष्ठया प्रभावात् । ७११ नित्यं क्रीडाजीविकयोः। (२-२-५७) एतयोरर्थयोरकेन नित्यं षष्ठी समस्यते । उद्दालकपुष्पभञ्जिका । क्रीडाविशेषस्य संज्ञा। 'संज्ञायाम् (सू ३२८६) इति भावे एषुल् । जीविकायाम्-दन्तलेखकः । तत्र क्रीडायां विकल्पे, जीविकायां 'तृजकाभ्यां त्तरपदो द्विगुः स्त्रियाम्' इति तु न भवति, पात्राद्यन्तस्य नेत्युक्तेः । त्रिभुवनस्य विधा. तेति तृचो योगे कथं कर्मणि षष्ठयाः समास इत्याक्षेपः। परिहरति-शेषषष्ठयेति । प्रत्यासत्त्या कारकषष्ठया एवायं निषेध इति 'बहुषु-' इति सूत्रे कैयट आहेत्यर्थः। कर्तरि च । कर्तरीत्येतत् षष्ठीत्यनुवृत्ते अन्वेति, तदाह-कर्तरि षष्ठया इति । अकेनेति । 'तृजकाभ्यां कर्तरि' इत्यतस्तदनुवृत्तेरिति भावः । भवतः शायिकेति । 'स्त्रियां क्लिन्' इत्यधिकारे धात्वर्थनिर्देश एवुल , अकादेशः, टाप् । 'कर्तृकर्मणोः-' इति कर्तरि षष्ठी। अत्र अकस्य कर्बर्थकत्वाभावात् 'तृजकाभ्याम्-' इत्यस्य न प्राप्तिः । ननु पूर्वसूत्रे 'तृजकाभ्याम्-' इति समस्तपदोपादानात् कथमिहाकस्यैवानुवृत्तिः, न तु तृच इत्यत पाह-नेहेति । तद्योग इति । तृचः कर्तरि विहितत्वेन स्रष्टा कृष्ण इत्यादौ कर्तुः कृताभिहिततया तत्र कर्तरि षष्ठया एवाप्रसक्त्या तत्समासनिषेधस्य शशशृङ्गेण कण्डूयनं न कर्तव्यमितिवदसंभवपराहतत्वादित्यर्थः। नित्यं क्रीडाजीविकयोः । उद्दालकपुष्पभलिकेति । उद्दालकः श्लेष्मातकः, तस्य पुष्पाणि, तेषां भञ्जनमित्यस्वपदविग्रहः । संज्ञायामिति । 'स्त्रियां क्लिन्' इत्यधिकारे 'संज्ञायाम्' इति भावे रावुलित्यर्थः । अत्र कर्मणि षष्ठयाः समासः। वस्तुतस्तु 'स्त्रियां क्तिन्' इत्यधिकारे 'धात्वर्थनिर्देशे एवुल्' इति भावे एवुलित्येव युक्तम् । 'संज्ञायाम्' इति तु अधिकरणार्थमिति कृदन्ते वक्ष्यते। तथा सति उद्दालकपुष्पाणि भज्यन्ते यस्यां क्रीडायामिति विग्रहः । जीविकायामिति । उदाहरणं वक्ष्यत इत्यर्थः । दन्तलेखक इति। दन्तानां लेखनेन जीवतीत्यस्वपदविग्रहः, लिखेः कर्तरि ण्वुल । अकादेशः । जीविका समासगम्या । ननु 'षष्ठी' इति सूत्रेणैवात्र षष्ठीसमाससिद्धेः किमर्थस्यैव तत्र ग्रहणम् , न तु यौगिकस्येति भावः । शेषषष्ठयेति । न्यासकारस्तु तृनन्तमेतत् ,'न लोका-' इति निषेधस्त्वनित्यः, 'त्रकाभ्याम्-' इति वक्तव्ये तृचः सानुबन्धग्रहणाज्ज्ञापकादित्याह । केचित्तु-'जनिकर्तुः-' 'तत्प्रयोजको हेतुश्च' इति निर्देशादनित्योऽयं समासनि घ इत्याहुः । तन्मन्दम् , शेषषष्ठीसमासेनोक्लनिर्देशोपपत्तेः। कर्तरि च। नेह वृजितिान चोत्तरार्थत्वं शङ्कयम् । तृच् क्रीडाजीविकयोर्नास्तीति जयादित्ये