________________
प्रकरणम् १८] बालमनोरमा-तत्त्वबोधिनीसहिता। [५३ (२-२-१५) कर्बर्थतजकाभ्यां षष्या न समासः । प्रपा स्रष्टा । वज्रस्य भने । प्रोदनस्य पाचकः । कर्तरि किम्-इथूणां भक्षणमितुमक्षिका । पत्यर्थभर्तृशब्दस्य तु याजकादित्वात्समासः । भूभः कथं तर्हि 'घटानां निर्मातुभिभुवनतु षष्ठयाः। तदाह-कर्बर्थतजकाभ्यामिति । अपां स्रष्टा, वज्रस्य भर्तेति । 'एवुल्तृचौ' इति कर्तरि तृच् , 'कर्तृकर्मणोः-' इति कर्मणि षष्ठी । एवमोदनस्य पाचक इति पचेः कर्तरि ण्वुल । अकादेश इति विशेषः । इशुभतिकेति । "स्त्रियां किन्' इत्यधिकारे धात्वर्थनिदेशे एवुल । कर्मणि षष्ठयाः समासः । 'कर्मणि च' इति निषेधस्तु न, कर्तुः प्रयोग एव तत्प्रवृत्तेः । ननु 'भुवो भर्ता भूभर्ता' इत्यत्रापि निषेधः स्यात् । न च भतुशब्दस्य याजकादौ पाठाद् भवत्येव षष्ठीसमासः। 'याजकादिभिश्व' इत्यस्य प्रतिप्रसवार्थत्वादिति वाच्यम् , एवं तर्हि वज्रस्य भर्तेत्यत्रापि समासप्रसङ्गादित्यत आह-पत्यर्थेति । याजकादौ पत्यर्थकस्यैव भर्तृशब्दस्य ग्रहणम् , व्याख्यानात् । ततश्च वज्रस्य भर्तेत्यत्र 'याजकादिभिश्च' इति समासो नेति भावः । कथं तहीति । त्रयाणां भुवनानां समाहारत्रिभुवनम् , तद्धितार्थ इति द्विगुः । 'अकारान्तो. षष्ठी 'कर्तृकर्मणोः-' इति विहिता, न तु 'उभयप्राप्तौ- इत्यनेन, आचार्यस्य कर्तुः वस्तुतः सत्त्वेऽपि इहानुपादानात् । 'कृत्वोर्थप्रयोगे-' इत्यतः 'प्रयोगे' इत्यनुवर्तनात्कर्तृकर्मणोरुभयोरुपादान एवायं नियम इति स्वीकारात् । 'आश्चर्यो गवां दोहोऽगोपेन' इत्यत्र हि आश्चर्य प्रतिपाद्यम् , तच्च यद्यशिक्षितो दोग्धा दुर्दोहा गावश्च दोग्धव्यास्त. देव निर्वहति, न त्वन्यथा । अतः कर्तृकर्मणोविशिष्योपादानादस्तुभयप्राप्तिः, इह तु 'शब्दानामिदमनुशासनम् ,न त्वर्थानाम्' इत्यर्थनिवृत्तिपरं वाक्यम् न तु कर्तृविशेषनिवृत्तिपरमतो नास्त्युभयप्राप्तिः । अस्तु वा यथाकथंचिदुभयप्राप्तिः, तथापि न क्षतिः, 'उभयप्राप्तौ-' इति सूत्रे 'अविशेषेण विभाषा' इति पक्षस्यापि विद्यमानतया नियमाप्रवृत्तिपक्षे 'आचार्यस्य शब्दानुशासनम्' इति प्रयोगसंभवात् । यदि वा शेषलक्षणा षष्ठीति व्याख्यायते, तदा तु समासनिषेधशकैवात्र नास्तीति । तुजकाभ्याम् । इह 'कर्तृषष्ठया तृजकाभ्याम्' इति वृत्तिकारव्याख्यानमयुक्तमिति ध्वनयनाह-कर्बर्थतुजकाभ्यामिति । कर्तृग्रहणं तृजकयोरेव विशेषणमिति युक्तम् , तयोः श्रुतत्वात् , न तु षष्ठया इति भावः । यद्यपि कर्तरीति तृचो न विशेषणम् , व्यभिचारात् , तथाप्यकस्य विशेषणत्वेन तदावश्यकमित्याह--इभक्षिकेति । 'पर्यायार्हणा-' इति भावे एवुच् । कर्मणि षष्ठया समासः । ननु वज्रस्य भर्तेत्युदाहरणमयुक्तम् । भर्तृशब्दस्य याजकादित्वेन समासावश्यंभावादित्याशङ्कयाह-पत्यर्थभर्तृशब्दस्येति । यद्यपि याजकादिष्वर्थविशेषविशिष्टतया भर्तृशब्दो न पठितः, तथापि रूढेर्बलीयस्त्वात्पतिपर्याय