________________
५२]
सिद्धान्तकौमुदी। [तत्पुरुषसमास(२-२-१३) क्रेन षष्ठी न समस्यते । इदमेषामासितं गतं भुक्तं वा । ७०८ कर्मणि च । (२-२-१४) 'उभयप्रासौ कर्मणि' (स ६२५) इति या षष्ठी सा न समस्यते । पाश्चर्यो गवां दोहोऽगोपेन । ७०६ तृजकाभ्यां कर्तरि । इदमेषामासितं शयितं गतं भुक्तं वेति । 'लोऽधिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्यः' इत्यधिकरणे क्तः । 'अधिकरणवाचिनश्च' इति षष्टी । कर्मणि च । केनेति निवृत्तम् । कर्मणि या षष्ठी सा न समस्यते-इत्यर्थे अपां स्रष्टेत्यादावपि निषेधसिद्धेः 'तृजकाभ्यां कर्तरि' इति व्यर्थ स्यात् । किं तु चकार इतिपर्यायः । कर्मणीति सप्तम्येकवचनमुच्चार्य या षष्ठी विहिता सा न समस्यत इत्यर्थः । फलितमाह--उभयेत्यादिना । आश्चर्य इति । यद्यप्यत्र 'कर्तृकर्मणोः कृति' इत्येव कमेणि षष्ठी, न तु 'उभयप्राप्ती कर्मणि' इति सूत्रेण, तस्य सूत्रस्य कर्मण्येव षष्ठी, न तु कर्तरीति नियमपरत्वात् । तथापि नियमसूत्राणां विधिरूपेण निषेधरूपेण च द्वेधा प्रवृत्तेः स्वीकारान्न दोषः। शब्दानुशासनमित्यत्र तु वस्तुत आचार्यस्य कर्तृत्वेऽपि तस्यानुपादानादुभयप्राप्तावित्यस्याप्रवृत्तेयिं निषेधः, 'कृत्वोऽर्थप्रयोगे-''इत्यतःप्रयोगे' इत्यनुवृत्त्या कर्तृकर्मणोरुभयोः प्रयोग एव तस्य प्रवृत्तेः । यद्वा 'शेषे विभाषा' अविशेषेण विभात्याश्रित्य उभयप्राप्तावित्यभावपक्षे 'कर्तृकर्मणोः कृति' इत्येव षष्ठयाः प्राप्त यं निषेध इत्यलम् । तुजकाभ्यां कर्तरि । कर्तरीति तृजकयोरेव विशेषणम्, श्रुतत्वात् । न वाचिग्रहणं चिन्त्यप्रयोजनमिति हरदत्तादयः । इदमेषामिति । 'कोऽधिकरणे च-' इति क्तः । 'अधिकरणवाचिनश्च' इति कर्तरि षष्ठी । 'अधिकरणे च' इत्येव सिद्ध सूत्रद्वयेऽपि वाचिग्रहणं स्पष्टार्थमित्याहुः । ननु किंवृत्तं यवृत्तमित्यत्र न कर्मणि क्तः, वृतेरकर्मकत्वात् । तथा चाधिकरणक्लान्तेन कथमिह समास इति चेन् मैवम् , नायमधिकरणे क्तः, किंतु 'गत्यर्थाकर्मक-' इति कर्तरि । किमा वृत्तं निष्पन्नमित्यर्थः । कर्मणि च । क्लेनेति नानुवर्तते. 'क्केन च पूजायाम्' इति निषेधवैयर्थ्यप्रसङ्गात् । षष्ठी त्वनुवर्तते, किंतु सापि या काचिकर्मणि षष्ठी न गृह्यते । 'अपां स्रष्टा' इत्यादावनेनैव सिद्धौ ‘तृजकाभ्यां कर्तरि' इति निषेधवैयापत्तेः । किं च 'इध्मव्रश्चनः' इत्यादौ समाससिद्धये वचनं कर्तव्यं स्यात् । न च 'कृद्योगलक्षणा षष्ठी समस्यते' इति वार्तिकमस्त्येवेति वाच्यम् , तस्य सिद्धान्ते प्रत्याख्यानात्। ततश्च निपातानामनेकार्थत्वादितीत्यर्थे चशब्दोऽयम् तदाह-कर्मणीति या षष्ठीति । सप्तम्येकवचनान्तं पदमुच्चार्य या षष्ठी विहिता परिशेषिता वेत्यर्थः । नियमसूत्राणां विधिमुखेन निषेधमुखेन वेति द्वेधा प्रवृत्तेः स्वीकृतत्वात् । गवां दोह इति । अगोपेनेत्युपन्यासस्त्विह उभयप्राप्तिप्रदर्शनार्थः। ननु कथम् अथ शब्दानुशासनमिति। अत्र व्याचख्युः-शब्दानामितीयं