________________
प्रकरणम् १८] बालमनोरमा-तत्त्वबोधिनीसहिता। [५१ तार्थानां परस्वादाधकः षष्ठीसमासः प्रातः, सोऽप्यनेन वार्यते । ७०६ क्तेन च पूजायाम् । (२-२-१२) 'मतिबुद्धि-' (सू ३०८६) इति सूत्रेण विहितो यः कस्तदन्तेन षष्ठी न समस्यते। राज्ञां मतो बुद्धः पूजितो वा। राजपूजित इत्यादी तु भूते कान्तेन सह तृतीयान्तस्य समासः १७०७ अधिकरणवाचिनाच।
विभक्त्यन्तेषु सावकाशाः । षष्ठीसमासस्तु राज्ञः पुरुष इत्यादावसमानाधिकरणे सावकाशः । गोर्धेनोः, यूनः खलतेरित्यादिषु उभयं प्राप्तम् । तत्र 'पोटायुवति' 'युवा खलति' इत्यादिविधीन् बाधित्वा षष्ठीसमासः प्राप्तः, सोऽप्यनेन समानाधिकरणेनेति निषेधेन वार्यत इत्यर्थः । न च निषेधसामर्थ्यादेव पोटायुवति-' इत्यादिसमासोऽपि बाध्यतामिति वाच्यम् , षष्ठीसमासे गोर्धेनोरित्यादौ अन्यतरस्य पूर्वनिपातः। 'पोटायुवति-' इत्यादिसमासे तु गोयुवादिशब्दस्यैवेति फलभेदस्य स्पष्टत्वात् । समानाधिकरणेन निषेधश्वायं क्वाचित्क एव, अन्यस्य पदस्यार्थ इत्यर्थे अन्यपदार्थ इति निर्देशात् । तेन नीलोत्पलस्य गन्ध इत्यादिसिद्धः । तेन च पूजायाम् । अत्र पूजाग्रहणं 'मतिबुद्धिपूजार्थेभ्यश्च' इति सूत्रोपलक्षणम् । तदाह--मतिबुद्धीति सूत्रेणेति । राक्षां मतो बुद्धः पूजितो वेति । राज्ञा इष्यमाणो ज्ञायमानः पुज्यमान इति क्रमेणार्थः। 'मतिबुद्धिपूजार्थेभ्यश्च' इति वर्तमाने क्तः । 'क्लस्य च वर्तमाने' इति षष्ठी । नन्वेवं सति राजपूजितो राजमतो राजबुद्ध इति कथं समास इत्यत आह-राजपूजित इत्यादाविति । अधिकरणवाचिना च । शेषपूरणेन सूत्रं व्याचष्टे--केनेति । दात्तत्वं स्यात् , तच्च नेष्यत इति भावः । सोऽप्यनेनेति । षष्ठीसमासेन 'पोटायुवति-' इति समासो वारितः, सोऽपि षष्ठीसमासः 'पूरणगुण-' इत्यनेन वार्यत इत्यर्थः। क्नेन च पूजायाम् । सूत्रोपलक्षणं पूजाग्रहणं व्याख्यानादित्याह-मतिबुद्धीति । राशामिति । 'क्तस्य च वर्तमाने' इति कर्तरि षष्ठी। भूत इति । न च तक्रकौण्डिन्यन्यायेन मत्यादिभ्यः तस्य वर्तमानकालो भूतकालतां बाधत इति वाच्यम् । 'तेनैकदिक्' इत्यतः 'तेन' इत्यधिकारे 'उपज्ञाते' इति निर्देशेन भूतकालस्याबाधज्ञापनात्। 'उपज्ञाते' इत्यत्र हि भूते क्लः, न तु वर्तमाने । अन्यथा 'क्लस्य च वर्तमाने' इति षष्ठी विधानादुपज्ञातशब्दस्य तेनेति तृतीयायोगो न स्यात् । न चैवमपि ज्ञानार्थेष्वेव ज्ञापकत्वमस्त्विति वाच्यम् । 'पूजितो यः सुरासुरैः' इति प्रयोगानुरोधेन सामान्यविषयज्ञापकत्वस्यैव न्याय्यत्वात् । अन्ये तु कारकषष्ठया एव समासनिषेधोऽयम् , शेषषष्ठया तु समासः स्यादेवेत्याहुः । एतेन 'कलहं स राममहितः कृतवान्' इति भप्रियोगो व्याख्यातः । राममहितः स कलहं कृतवानित्यन्वयः। अधिकरणवाचिना च ।