________________
५० ]
सिद्धान्तकौमुदी। तत्पुरुषसमाससमानाधिकरणेन-तक्षकस्य सर्पस्य । विशेषणसमासस्विह बहुलग्रहणान्न । 'गोर्धेनोः' इत्यादिषु पोटायुवति-' (सू ७४४) इत्यादीनां विभक्स्यन्तरे चरिकृदुत्तरपदप्रकृतिस्वरण प्रकृतिस्वरः, तव्ये तु नेति फलभेद इति भावः । समाना धिकरण इति । समानाधिकरणेन 'षष्ठयन्तं न समस्यते इत्यत्रोदाहरणं वक्ष्यत इत्यर्थः । तक्षकस्य सर्पस्येति । अत्र समासे सति पुनः समासात् षष्ठयत्पत्तौ तक्षकसर्पस्येति न भवतीत्यर्थः । ननु षष्ठीसमासस्य निषेधेऽपि 'विशेषणं विशेष्येण बहुलम्' इति कर्मधारयसमासो दुर्वारः । अतः किं षष्ठीसमासनिषेधेनेत्यत आहविशेषणसमासस्त्विति । ननु षष्ठीसमासनिषेधसामर्थ्यादेवात्र कर्मधारयो न भविष्यति । तत् किमगतिकगत्या बहुलग्रहणाश्रयणेन । न च कर्मधारयस्वर एव यथा स्यात् , न तु षष्टीसमासस्वर इत्येतदर्थः षष्ठीसमासनिषेध इति वाच्यम् , उभयथापि 'समासस्य' इत्यन्तोदात्तत्वस्याविशिष्टत्वादिति चेत् , मैवम्-कर्मधारये हि सति गमनस्य श्रेयस इत्यादौ 'श्रज्यावमकन्पापवत्सु भावे, इति पूर्वपदप्रकृतिस्वरः । षष्ठीसमासे त्वन्तोदात्तत्वं स्यात् । तन्मा भूदित्येतदर्थं षष्ठीसमासनिषेध आवश्यक इति समासनिषेधस्य चरितार्थत्वान्न तस्य विशेषणसमासनिवृत्तिसामर्थ्यमिति बहुलग्रहणमाश्रितम् । न चैवमपि तक्षकसर्प इति प्रथमान्तविग्रहे कर्मधारये सति तक्षकसर्पस्येति दुर्निवारमिति वाच्यम् , निषेधसमार्थ्यादेव प्रथमान्तकर्मधारयमाश्रित्य तक्षकसर्पस्येत्येवंजातीयकप्रयोगाभावोन्नयनात् । अथ समानाधिकरणेन निषेधे उदाहरणान्तरमाह-गोर्धेनोरिति । गोर्धेनोरित्यादिषु षष्टीसमासः प्राप्तः, सोऽप्यनेन वार्यत इत्यन्वयः। आदिना यूनः खलते. रित्यादिसंग्रहः । ननु षष्ठीसमास एवात्र न प्रसज्यते, 'पोटायुवति-' 'युवा खलति-' इत्यादिविशेषविहितकर्मधारयेणात्र परस्यापि षष्ठीसमासस्य बाधितत्वादित्यत आहपोटायुवतीत्यादीनां विभक्त्यन्तरे चरितार्थानां परत्वाद्वाधक इति । 'पोटायुवति-' 'युवा खलति-' इत्यादिविधयो गौर्धेनुः, युवा खलतिरित्यादिषु प्रथमारूपेण विवक्षायां षष्ठी । ब्राह्मणसंबन्धिनी या क्रिया तदनन्तरमित्यर्थः । कृदव्ययमेवेति । 'अनेकमन्यपदार्थे' इति सूत्रे 'सर्वपश्चात्-' इति भाष्यप्रयोगादिति भावः । इत्यादीति । तथा च भट्टिः प्रायुत-'यत्कृतेऽरीन्निगृह्णीमः' । 'आदेयाः किंकृते भोगाः कुम्भकर्ण त्वया विना' इति । रक्षित इति । कैयटहरदत्तौ तु अव्ययप्रतिषेधे 'वृक्षस्योपरि' इत्युदाहरन्तौ अकृदव्ययेनापि निषेधं मन्येते, तौ च प्रागुक्तभाष्यप्रयोगविरोधादुपक्ष्याविति भावः । तव्यता तु भवत्येवेति । सूत्रे निरनुबन्धग्रहणादिति भावः । स्वकर्तव्यमिति । कर्तृषष्ठया समासः। स्वरे भेद इति । कृदुतरपदप्रकृतिस्वरेण तित्स्वरस्याषस्थानादन्तस्वरित इष्टः । तव्येन तु समासे मध्यो