________________
प्रकरणम् १८] बालमनोरमा-तत्त्वबोधिनीसहिता। [४६ सत्-द्विजस्य कुर्वन् , कुर्वाणो वा, किङ्कर इत्यर्थः । अव्ययम्-ब्राह्मणस्य कृत्वा। पूर्वोत्तरसाहचर्यास्कृदन्ययमेव गृह्यते, तेन तदुपरि इत्यादि सिद्धमिति रक्षितः । तव्यः-ग्राह्मणस्य कर्तव्यम् । तग्यता तु भवत्येव, स्वकर्तव्यम् । स्वरे भेदः । तृतीयासमासे 'तृतीया कर्मणि' इति पूर्वपदप्रकृतिस्वरः । षष्ठीसमासे तु समासस्येत्यन्तोदात्तत्वमिति फलभेद इति भावः । सदिति । सद्योगे षष्ठीसमासनिषेध उदाह्रियत इत्यर्थः । 'तौ सत्' इति शतृशानचोः सदिति संज्ञा वक्ष्यते। ननु द्विजस्य कुर्वनिति न कर्मणि षष्ठी, 'न लोक-' इति निषेधात् । नापि द्विजस्य घटं कुर्वन्निति घटाद्यपेक्षया शेषषष्ठी, तर्हि सापेक्षत्वेनासामर्थ्यात् कुर्वन्नित्यनेन समासाप्रवृत्तेरित्यत आह-किङ्कर इत्यर्थ इति । द्विजं परिचरन्नित्यर्थ इति यावत् । कृधातुरिह परिचरणे वर्तत इति फलितम् । अव्ययमिति । उदाहरणं वक्ष्यत इति शेषः । पूर्वोत्तरेति । सत्तव्याभ्यां कृयामित्यर्थः । 'अनेकमन्यपदार्थे' इति सूत्रभाध्ये सर्वपश्चादिति प्रयोगश्चेह लिङ्गम् । तव्य इति । उदाहरणं वक्ष्यत इत्यर्थः । ब्राह्मणस्य कर्तव्यमिति । 'अर्हे कृत्यतृचश्च' 'तव्यत्तव्यानीयरः' इति कृत्यस्तव्यः । 'कृत्यानां कर्तरि वा' इति षष्ठी । तव्यता तु भवत्येवेति । षष्ठीसमास इति शेषः। तकारानुबन्धरहितस्यैव तव्यस्य सूत्रे ग्रहणात्तव्यतो न ग्रहणमिति भावः । स्वकर्तव्यमिति । स्वस्य कर्तव्यमिति विग्रहः। 'कृत्यानां कर्तरि वा' इति षष्ठी। अत्र तव्यता योगात् समासनिषेधो नेति भावः । ननु तव्यत्प्रत्ययमाश्रित्य ब्राह्मणकर्तव्यमिति समाससंभवात् किं तव्ययोगे तन्निषेधेनत्यत आह-स्वरे भेद इति । तव्यति कृते इत्यादौ तत्स्थत्वं सुस्थमेव । एवं घटरूपमित्यादावपि। नन्वेवमपि 'बलाकायाः शौक्लयम्' 'केशस्य नैल्यम्' इत्यादावतिप्रसङ्ग इति चेत् , अत्राहुः-'गुणिवचनादुत्पन्नध्या शुक्लादिगुणस्यैवाभिधानात्तद्वाचकपदानां गुणिसामानाधिकरण्यसत्त्वान्न दोषः। तथा च प्राधान्येनाप्राधान्येन वा द्रव्याप्रतिपादकत्वे सति गुणप्रतिपादकत्वं तत्स्थगुणवाचित्वम्' इत्यर्थ इति । फलानामिति । करणस्य शेषत्वविवक्षायां षष्ठी । स्वरे विशेष इति । 'तत्पुरुषे तुल्यार्थ-' इति पूर्वपदप्रकृतिस्वरं बाधित्वा 'थाथ-' आदिसूत्रेणान्तो दात्तत्वे प्राप्त तदपवादेन 'तृतीया कर्मणि' इत्यनेन पूर्वपदप्रकृतिस्वरे सत्यायुदात्त इष्टः, षष्ठीसमासे तु अन्तोदात्तत्वं स्यात्तच्च नेष्यत इति भावः। तृपिश्च सकर्मकोऽप्यस्ति 'पितृनताप्सीत्सममंस्त बन्धून् ' इति भट्टिप्रयोगात् । तेनास्मात् कर्मणि को नास्तीति न शकुनीयम् । द्विजस्य कुर्वन् कुर्वाण इति । नेयं घटाद्यपेक्षया षष्ठी द्विजस्य घटं कुर्वनिति। तथा हि सत्यसामर्थ्यादेव समासाप्रसक्तौ निषेधोऽयं व्यर्थः स्यादतो व्याचष्टे-किंकर इत्यर्थ इति । ब्राह्मणस्य कृत्वेति । तादर्थ्यरूपसंबन्धस्य सामान्य