________________
४८]
सिद्धान्तकौमुदी। [ तत्पुरुषसमासदमुदाहरणम् । अनित्योऽयं गुणेन निषेधः, 'तदशियं संज्ञाप्रमाणत्वात् (सू १२६५) इत्यादिनिर्देशात् । तेन अर्थगौरवम् , बुद्धिमान्यम् इत्यादि सिद्धम् । सुहितार्थास्तृप्त्यर्थाः । फलानां सुहितः । तृतीयासमासस्तु स्यादेव । स्वरे विशेषः। दिदन्तवर्णने प्रकृते यदा ब्राह्मणस्य शुक्ला इत्युच्यते, तदा प्रकरणाद् दन्ता इति विशेष्योपस्थितिः । यदा वा सर्ववर्णेषु दन्तवस्त्रभूषणेषु प्रकृतेषु ब्राह्मणस्य शुक्ला इत्युच्यते, तदा अर्थाद् दन्ता इति विशेष्योपस्थितिः, तत्र सामर्थ्यसत्त्वात् समासे प्राप्ते निषेध इत्यर्थः । अत्र 'आकडारात्-' इति सूत्रोक्तगुणवचनसंज्ञकानां 'तृतीया तत्कृत-' इति सूत्रे प्रपञ्चितानां गुणानां न ग्रहणम् , अत्र गुणवचनशब्दाभावात् । किं तु 'वोत्तो गणवचनात्' इति सूत्रभाष्ये प्रपञ्चितानां 'सत्त्वे निविशतेऽपैति-' इत्यादिलक्षणलक्षितगुणानामेव ग्रहणमिति बोध्यम् । एतेन 'आकडारात्-' इति सूत्रभाष्ये तद्धितान्तस्य गुणवचनत्वपर्युदासात् कथं काष्र्यादिशब्दानां गुणवाचित्वमिति निरस्तम् । अथ अर्थगौरवमित्यादौ षष्ठीसमासं साधयितुमाह-अनित्योऽयमिति । संक्षाप्रमाणत्वादिति । संज्ञायाः प्रमाणत्वं संज्ञाप्रमाणत्वम् , तस्मादिति विग्रहः। अत्र प्रमाणत्वस्य गुणत्वात् तेन षष्ठीसमासनिषेधात्समासनिर्देशोऽनुपपन्नः स्यात् । अतो गुणेन समासनिषेधोऽनित्य इति विज्ञायत इत्यर्थः । इत्यादीति । श्रादिना गुणकात्यमित्यादिसंग्रहः । वस्तुतस्तु अनित्यो गुणेन निषेध इत्ययमों भाष्ये न दृश्यते, न च कृष्णैकत्वमित्यादौ समासानुपपत्तिरिति वाच्यम् , 'पङ्क्तिविंशति-' इति सूत्रे विंशत्यादिशब्दा भाववचना भवन्तीत्युक्त्वा गवां विंशतिर्गवां सहस्रमित्यर्थे गोविंशतिर्गासहस्रमित्यादिप्रयोगात् । अर्थगौरवमित्यादौ तु अर्थगतं गौरवमिति मध्यमपदलोपिसमासो बोध्य इति शब्देन्दुशेखरे प्रपञ्चितम् । सुहितपदं व्याचष्टे-सुहितार्थास्तुप्त्यर्था इति । नपुंसके भावे क्त इति भावः । फलानां सुहित इति । करणत्वस्याविवक्षयां संबन्धविवक्षायां षष्ठी। अर्थग्रहणात् फलानां तृप्तिरित्यादावपि न समासः। फलसुहितमिति कथं समास इत्यत आह-तृतीयासमासस्तु स्यादेवेति । करणत्वविवक्षायां तृतीया । 'कर्तृकरणे कृता बहुलम्' इति समास इति भावः । तर्हि सुहितयोगे षष्ठीसमासनिषेधो व्यर्थ इत्यत आह-स्वरे विशेष इति । इति वार्तिकेन समासः प्रतिप्रसूयते । गन्धत्वेन प्रतीयमानो गन्धो न कदापि गुणिसमानाधिकरणः । किं तु स्वप्रधानः इदमेव हि तात्स्थ्यं नाम । ननु 'पिनष्टि गन्धान्' इति प्रयोगदर्शनात् शुक्लशब्दादितुल्य एव गन्धशब्दो न तत्स्थगुणवचन इति चेत् । न । पिनष्टीति प्रयोगे हि गन्धानिति न गुणशब्दः, मालतीकुसुमादिषु गन्धशब्दप्रयोगदर्शनात् । किं तु चन्दनत्वादिजातिनिमित्तकोऽन्य एव सः । तस्माचन्दनगन्ध