SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् १८] बालमनोरमात्तत्त्वबोधिनीसहिता। [४७ ७०५ पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन । (२-२-११) पूरणाद्यर्थैः सदादिभिश्च षष्ठी न समस्यते । पूरणे-सतां षष्ठः । गुणे-काकस्य कार्यम् , ब्राह्मणस्य शुक्राः । यदाप्रकरणादिना दन्ता इति विशेष्यं ज्ञातं तदे. विहितषष्ठयाः समासो न भवति । 'न निर्धारणे' इति प्रत्याख्येयमेवेति भाष्ये स्पष्टमित्यलम् । पूरणगुण । पूरणगुणसुहितानि अर्था येषां ते पूरणगुणसुहितार्थाः, ते च सच्च अव्ययं च तव्यश्च समानाधिकरणं चेति समाहारद्वन्द्वात् तृतीया । तदाह-- पूरणाद्यथैरिति । पूरण इति । उदाहरणं वक्ष्यत इति शेषः । सतां षष्ठ इति । षराणां पूरण इत्यर्थे 'तस्य पूरणे डट' 'षट्कतिकतिपयचतुरां थुक्' । न च कुम्भपूरणमित्यत्रापि स निषेधः स्यादिति काच्यम् , 'सोऽचि लोपे चेत् पादपूरणम् , इति निर्देशन पूरणार्थकप्रत्ययस्यैव ग्रहणात् । 'उञ्छषष्ठाङ्कितसैकतानि' इत्यत्र तु उञ्छात्मकः षष्ठ इति व्याख्येयम् । गुण इति । उदाहरणं वक्ष्यत इत्यर्थः। प्रधानत्वेन वा उपसर्जनत्वेन वा गुणवाची गुणशब्दः व्याख्यानात् । तदाह-काकस्य कार्यम् , ब्राह्मणस्य शुक्ला इति । कृष्णशब्दाद् ‘गुणवचनब्राह्मणादिभ्यः-' इति भावे ष्यञ् । शुक्लशब्दात्तु 'गुणवचनेभ्यो मतुपो लुक्' इति लुक् । ननु दन्ता इति शेषपूरणेन ब्राह्मणस्य दन्ताः शुक्ला इत्यर्थे ब्राह्मणशब्दस्य दन्तशब्देनैवान्वयात् शुक्लशब्देनान्वयाभावादसामर्थ्यात् कथमिह समासप्रवृत्तिरित्यत आह—यदा प्रकरणादिनेति । प्रकरणादर्थाद्वेत्यर्थः । दन्ताः संयुक्ताः शुभावहाः, न तु विरला इत्याषष्ठी । सर्पिःसंबन्धि प्रवर्तनमित्यर्थः । पूरणगुण । अर्थशब्दस्य त्रिषु संबन्धादाहपूरणाद्यथैरिति । अत्र प्राचोक्तम् ‘एतदर्थैः षष्टी न समस्यते' इति, तन्न्यूनम् । तथा हि सती सुहितान्तानामेव ग्रहणं स्यात् , तावतामेवार्थशब्देन समस्तत्वादिति ध्वनयन्नाह सदादिभिश्चेति । षष्ठ इति । षण्णां पूरणः षष्ठः । 'तस्य पूरणे डट', 'षट्कतिकतिपयचतुरां थुक्' । कथं तर्हि 'तान्युञ्छषष्ठाङ्कितसैकतानि' इति । प्रमाद एवायमित्येके। उञ्छेषु षष्ठ उञ्छात्मकः षष्ठ इति वा व्याख्येयमिति मनोरमायां स्थितम् । गुण इति । 'सत्त्वे निविशतेऽपैति-' इत्यादिलक्षणलक्षितो गुणोऽत्र गृह्यते, न त्वदेङलक्षणः, अर्थग्रहणात् । नापि संख्या। 'क्रोशशतयोजनशतयोः' इति वार्तिके निर्देशात् । काकस्य कार्यम् । ब्राह्मणस्य शुक्ला इति । व्याप्तिन्यायात्केवलगुणवाची गुणोपसर्जनद्रव्यवाची च गुणशब्देन गृह्यत इति भावः । ननु ब्राह्मणस्य शुक्ला इत्यत्र समासप्रसङ्ग एव नास्ति, ब्राह्मणशब्दस्य दन्तैरेवान्वयाद् ब्राह्मणस्य ये दन्तास्ते शुक्ला इत्यर्थादत आह-यदेति । शुक्लशब्द एवेह विशेष्यसमर्पक इति भावः । चन्दनगन्धो घटरूपमित्यादावनेन निषेधे प्राप्ते 'तत्स्थैश्च गुणैः समासो वक्तव्यः'
SR No.006149
Book TitleLaghu Siddhant Kaumudi Part 02
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1982
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy