________________
४६ ]
सिद्धान्तकौमुदी । [ तत्पुरुषसमास
विधाना षष्ठी न समस्यत इति वाच्यम्' ( वा १३२० ) । सर्पिषो ज्ञानम् । निर्धारणषष्ठी । यतो निर्धारणम्, यच्च निर्धार्यते, यच्च निर्धारणहेतुः, एतत्त्रितय - संनिधान एव तस्याः प्रवृत्तेरिति कैयटः । गुणेन निषेधस्त्वनित्य इति तरप्सूत्रे कैयटः । केचित्तु ‘उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः ।' इति गीतावाक्यात् कर्मधारय एव । उत्तमशब्दस्य विशेषणत्वेऽपि राजदन्तादित्वात् परनिपात इत्याहुः । प्रतिपदविधानेति । पदं पदं प्रतीति वीप्सायामव्ययीभावः । प्रतिपदं विधानं यस्याः सा प्रतिपदविधाना । ' षष्ठी शेषे' इति शेषलक्षणां षष्ठीं वर्जयित्वा सर्वा षष्टी प्रतिपदविधानेति भाष्यम् । सर्पिषो ज्ञानमिति । अत्र 'ज्ञोऽविदर्थस्य करणे' इति
स्थिततया तान्विहायानुपस्थितकल्पनाया अन्याय्यत्वात् । अथ कथं पुरुषोत्तम इति । यस्मान्निर्धार्यते, यश्चैकदेशो निर्धार्यते, यश्च निर्धारणहेतुः, एतत्त्रितयसंनिधाने सत्येवायं निषेध इति ‘द्विवचनविभज्योप-' इति सूत्रे कैयटः । अन्ये तु — पुरुषेषूत्तम इति निर्धारणसप्तम्याः ‘संज्ञायाम्' इति समासः । न चैवं 'न निर्धारणे' इति व्यर्थम् । स्वरे भेदात् । सप्तमीसमासे हि 'तत्पुरुषे तुल्यार्थ -' इत्यादिना पूर्वपदप्रकृतिस्वरः, षष्ठीसमासे तु 'समासस्य' इत्यन्तोदात्तत्वं स्यात्तचानिष्टमित्याहुः । तन्मन्दम् । 'संज्ञायाम्' इति समासस्य नित्यत्वेन स्वपदविग्रहा संगतिप्रसङ्गात् । तस्मात्कैयटोक्तसमाधानमेव समीचीनमिति नव्याः । प्रतिपदविधानेति । पदं पदं प्रति विहिता प्रतिपदविधाना । ‘षष्ठी शेषे' इति विहायान्येन 'ज्ञोऽविदर्थस्य -' इत्यादिना विहिता सर्वैव षष्ठीत्यर्थः । धातुकारकविशेषं गृहीत्वैव 'ज्ञोऽविदर्थस्य -' इत्यादिना षष्ठी विधीयत इति भवति तस्याः प्रतिपदविधानत्वम् । नन्वनेनैव गतार्थत्वाद् 'न निर्धारणे' इति व्यर्थमिति चेद् । अत्राहुः— 'यतश्च निर्धारणम्' इति सूत्रं न षष्ठीं विधत्ते, किं तु सप्तमीमेव । षष्ठी तु तया मा बाधीति प्रतिप्रसूयत इत्यन्यदेतत् । एवं 'स्वामीश्वराधिपति—' इत्यादिष्वपि । तेन गृहस्वामी, सर्वेश्वरः, निषादाधिपतिरित्यादि सिद्धमिति । वस्तुतस्तु ‘ज्ञोऽविदर्थस्य -' इत्यादिचतुर्दशसूत्रीमध्ये 'दिवस्तदर्थस्य' इत्यादिषट्सूत्रीं विहायावशिष्टायामष्टसूत्र्यां 'शेषे' इति वर्तते, तथा च 'न माषाणामश्नीयात्' इत्यादाविव ‘षष्ठी शेषे’ इत्येव सिद्धे नियमार्थं प्रकरणम्, 'इह षष्ठयेव न तु तल्लुक्' इति । तथा च लुकः प्रयोजकीभूतः समास एव नेति फलितोऽर्थः । ततश्च प्रतिपदविधाना-' इति वचनं न कर्तव्यम् । एवं स्थिते 'कृयोगा षष्ठी - ' इति वचनमपि मास्तु । ‘कर्तृकर्मणोः कृति' इत्यत्र हि 'शेषे' इति निवृत्तम् । तथा चाप्राप्तषष्ठीविधानार्थमेव तदिति समासनिवृत्तिप्रसङ्गाभावात् ' षष्ठी' इत्यनेनैव समाससिद्धेः । सर्पिषो ज्ञानमिति । वस्तुतः करणस्य संबन्धमात्रविवक्षया 'ज्ञोऽविदर्थस्य -' इति