SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् १८] बालमनोरमा-तत्त्वबोधिनीसहिता। [४५ देवपूजकः । 'गुणात्तरेण तरलोपश्चेति वक्तव्यम्' ( वा ३८४१)। तरबन्तं यद्गुणवाचि तेन सह समासस्तरलोपश्च । 'न निर्धारणे' (सू ७०४ ) इति 'पूरणगुण-' (सू ७०५) इति च निषेधस्य प्रतिप्रसवोऽयम् । सर्वेषां श्वेततरः सर्वश्वेतः । सर्वेषां महत्तरः सर्वमहान् । 'कृयोगा च षष्ठी समस्यत इति वाच्यम्' (वा १३१७) इध्मस्य प्रवचन इध्मप्रव्रश्चनः । ७०४ न निर्धारण । (२२-१०) निर्धारणे या षष्ठी सा न समस्यते । नृणां द्विजः श्रेष्ठः । 'प्रतिपदषष्ठी । देवपूजक इति । देवानां पूजक इति विग्रहः । पूजकशब्दो याजकादिरिति भावः। भूभतेति तृजन्तस्योदाहार्यम् , भर्तृशब्दस्य याजकादित्वात् । गुणात्तरेणेति । वार्तिकमिदं 'सर्व गुण-' इति सूत्रे भाष्ये स्थितम् । गुणवाचकाद् विहितो यस्तरप् तदन्तेन षष्ठी वा समस्यते , तरपो लोपश्चेत्यर्थः । फलितमाह-तरबन्तं यदिति । ननु 'षष्ठी' इति सूत्रेणैव सिद्धे किमर्थमिदमित्यत आह-न निर्धारण इति । 'सर्व गुण-' इति सूत्रे भाष्ये तु 'पूरणगुण इत्यस्यापवाद' इत्येवोक्तम् । सर्वशब्दानुवृत्तेः सर्वशब्द एवेदं वार्तिकमित्यभिप्रेत्योदाहरति-सर्वेषां श्वेततरः सर्वश्वेत इति । बकानां गुण इति शेषः । द्रव्यान्तरवृत्तिश्वेतरूपापेक्षया सर्वेषां बकानां श्वेतगुणोऽयमधिक इत्यर्थः । 'द्विवचनविभज्य-' इति विभक्तव्योपपदे तरप् । अत्र सर्वेषामिति षष्ठयन्तस्य श्वेततरशब्देन समासे तरपो लोपे सर्वश्वेत इति रूपम् । सर्वमहानिति । ईश्वर इति शेषः। पूर्ववत्तरप्। सर्वेषां महत्तर इति विग्रहः । इतरसंबन्धिमहत्त्वापेक्षया ईश्वरस्य महत्त्वमधिकमित्यर्थः । कृद्योगेति । कृता योगो यस्या इति विग्रहः । 'कर्तृकर्मणोः कृति' इति विहितेति भाष्यम् । इध्मप्रवचन इति । कुठार इति शेषः । प्रवृश्चयतेऽनेनेति प्रव्रश्चनः । करणे ल्युट् । इध्मानां प्रव्रश्चन इति विग्रहः । कर्मणि षष्टी । 'प्रतिपदविधाना-' इति वक्ष्यमाणनिषेधस्यापवादोऽयम्। न निर्धारणे । नृणां द्विजः श्रेष्ठ इति । अत्र नृणामिति षष्ठयन्तस्य द्विजशब्देन समासो न भवति । पुरुषाणामुत्तमः पुरुषोत्तम इत्यत्र तु शेषषष्ठयेव, न तु पोतृ । भर्तृ । रथगणक । पत्तिगणक । वृत् । गुणात्तरेणेति । एतच्च वार्तिकं 'सर्व गुणकात्स्न्र्ये' इत्यत्र पठितम् । कृद्योगा षष्ठीति । 'कर्तृकर्मणोः कृति' इति कृत्संनियोगेन कृतेत्यर्थः । यदा तु 'प्रतिपदविधाना-' इत्यादिनिषेधवचनमारभ्यते, तदेदं तद्बाधनायारब्धव्यम् । तस्यैवानारभ्यत्वमनुपदं वक्ष्यामः । इध्मवश्वन इति। वृश्च्यते छिद्यतेऽनेनेति व्रश्चनः कुठारादिः, करण ल्युट । इध्मानामिति कर्मषष्ठयन्तस्यानेन समासः । नृणामिति । 'यतश्च निर्धारणम्' इति षष्टी । द्विजशब्देनात्र समासप्रसङ्गः, तदपेक्षया हि षष्ठी। श्रेष्ठत्वं द्विजेतरमनुष्येभ्यः, तेषां सामान्यशब्देनोप
SR No.006149
Book TitleLaghu Siddhant Kaumudi Part 02
Original Sutra AuthorN/A
AuthorGirdhar Sharma, Parmeshwaranand Sharma
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1982
Total Pages716
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy