________________
४४ ]
सिद्धान्तकौमुदी। [तत्पुरुषसमास. पोढमुक्तपतितापत्रस्तैरल्पशः । (२-१-३८) एतैः सहाल्पं पञ्चम्यन्तं समस्यते, स तत्पुरुषः। सुखापेतः । कल्पनापोढः । चक्रमुक्तः । स्वर्गपतितः । तरङ्गापत्रस्तः । अल्पशः किम्-प्रासादापतितः ७०१ स्तोकान्तिकदूरार्थकृच्छ्राणि क्लेन । (२-१-३६) स्तोकान्मुक्तः । अल्पान्मुक्तः । अन्तिकादागतः। अभ्याशादागतः । दूरादागतः । विप्रकृष्टादागतः । कृच्छ्रादागतः। 'पञ्चम्याः स्तोकादिभ्यः' (सू १५६ ) इत्यलुक् । ७०२ षष्ठी। (२-२-८) राज्ञः पुरुषो राजपुरुषः । ७०३ याजकादिभिश्च । (२-२-६) एभिः षष्ठयन्तं समस्यते। 'तृजकाभ्यां कर्तरि (सू ७०६) इत्यस्य प्रतिप्रसवोऽयम् । ब्राह्मणयाजकः । तनात् । तदाह-अल्पं पञ्चम्यन्तमिति । 'बह्वल्पार्थात्-' इति शस् तु न भवति, 'बह्वल्पार्थान्मङ्गलामङ्गलवचनम्' इति वक्ष्यमाणत्वात् । स्तोकान्तिक । स्तोक, अन्तिक, दूर एतदर्थकानि, कृच्छ्र एतानि पञ्चम्यन्तानि क्तप्रत्ययान्तेन समस्यन्त इत्यर्थः । अर्थग्रहणं स्तोकान्तिकदूरेषु संबध्यते । अल्पान्मुक्त इति । स्तोकपर्यायस्योदाहरणम् । अभ्याशादागत इति । अन्तिकपर्यायस्योदाहरणम् । विप्रकृष्टादागत इति । दूरशब्दपर्याय उदाहार्यः । 'करणे च स्तोक-' इति पञ्चमी । दूरादागत इत्यत्र तु ‘दूरान्तिकार्थेभ्यः-' इति पञ्चमी । अत्र 'सुपो धातु-' इति लुकमाशङ्कयाह-पञ्चम्याः स्तोकादिभ्य इत्यलुगिति ।
षष्ठी। षष्ठयन्तं सुबन्तेन समस्यते, स तत्पुरुष इत्यर्थः । राजपुरुष इति । राजन् अस् पुरुष स् इत्यलौकिकविग्रहवाक्ये समासे सति सुब्लुकि अन्तर्वर्तिनी विभक्तिं प्रत्ययलक्षणेनाश्रित्य न लोपः । न च लुका लुप्तत्वान्न प्रत्ययलक्षणमिति । वाच्यम् , पदत्वस्य सुब्घटितसमुदायधर्मत्वेन तस्य अङ्गकार्यत्वाभावादिति भावः । याजकादिभिश्च । ननु 'षष्ठी' इति पूर्वसूत्रेणैव सिद्धे किमर्थमिदमित्यत
आह-तृजकाभ्यामिति । ब्राह्मणयाजक इति । ब्राह्मणस्य याजक इति विग्रहः, यजतेय॑न्तात् कर्तरि ण्वुल् , अकादेशः । 'कर्तृकर्मणोः कृति' इति कर्मणि इति शस् । यद्यपि 'बह्वल्पार्थान्मङ्गलामङ्गलवचनम्' इति वक्ष्यति, तथाप्यत एव निपातनाच्छसिति बोध्यम् । कारकत्वं तु समसनक्रियां प्रति पञ्चम्यन्तस्य कर्मत्वात्तदभिधायित्वाचाल्पशब्दस्य, तदेतदाह-अल्पं पञ्चम्यन्तमिति । स्तोकान्मुक्त इत्यादि । 'करणे च स्तोकाल्प-' इति पञ्चमी । दूरादागत इत्यादौ तु 'दूरान्तिकार्थेभ्यः-' इत्यनेन । षष्ठीराजपुरुष इति । राजन् अस् पुरुष सु इत्यलौकिकविग्रहे समासे कृते सुपो लुक्यन्तवर्तिनीं विभक्तिमाश्रित्य पदव्याभलोपः । याजकादिभिश्च । याजक । पूजक । परिचारक । परिवेषक । स्नातक । अध्यापक । उत्पादक । होतृ ।