________________
प्रकरणम् १८ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [४३ सूपः। द्विजार्था यवागूः । द्विजार्थ पयः। भूतबलिः । गोहितम् । गोमुखम् । गोरक्षितम् । ६६६ पञ्चमी भयेन । (२-१-३७) चोरादयं चोरभयम् । 'भयभीतभीतिभीभिरिति वाच्यम्' (वा १२७५) वृकभीतः। ७०० अपेतामिति शब्दः, नित्यसमासत्वेनास्वपदविग्रहौचित्यात् । द्विजायेति तादर्थ्यचतुर्थी । तदन्तस्य अर्थशब्देन समासः, विशेष्यसूपशब्दस्य पुँल्लिङ्गत्वात् समासस्य पुँल्लिङ्गता च । द्विजस्य उपकारकः सूप इत्यर्थः । द्विजार्था यवागूरिति । द्विजायेयमिति विग्रहः । अर्थशब्दस्य नित्यपुँल्लिङ्गत्वेऽपि 'परवल्लिङ्गम्-' इति पुंल्लिङ्गं बाधित्वा अनेन विशेष्यलिङ्गानुसारेण स्त्रीलिङ्गता । द्विजार्थ पय इति । द्विजायेदमिति विग्रहः । अत्र विशेष्यलिङ्गानुसारान्नपुंसकत्वम् । भाष्ये तु चतुर्युव तादर्थ्यस्योक्तत्वाद् 'उक्लाथा - मप्रयोगः' इति न्यायेन अर्थशब्देन विग्रहाप्रसक्तेर्नित्यसमासत्वं न्यायसिद्धमेव । गुरोरिदं गुर्वर्थमित्यादाविव लिङ्गमपि लोकत एव सिद्धमिति वार्तिकमिदं प्रत्याख्यातम् । भूतबलिरिति । भूतेभ्यो बलिरिति विग्रहः । तादर्थ्यचतुर्थ्यन्तस्य बलिशब्देन समासः । गोहितमिति । गोभ्यो हितमिति विग्रहः । गवामनुकूलमित्यर्थः । 'हित. योगे च' इति शेषषष्ठयपवादश्चतुर्थी । तदन्तस्य हितशब्देन समासः । गोरक्षितमिति । तृणादिकमिति शेषः । गोभ्यो रक्षितमिति विग्रहः । तादर्थ्यचतुर्थ्यन्तस्य रक्षितशब्देन समासः।
पश्चमी भयेन । पञ्चम्यन्तं भयशब्देन सुबन्तेन समस्यत इत्यर्थः । चो. रायं चोरभयमिति । 'भीत्रार्थानां भयहेतुः' इत्यपादानत्वात् पञ्चमी। भयभीतभीतिभीभिरिति । सूत्रे भयशब्दस्यैव ग्रहणाद् भीतादेरप्राप्ते समासे वचनम् । वृकभीत इति। वृकभीतिः, वृकभीरित्यप्युदाहार्यम् । अत्र भाष्ये अपर आहेत्युक्त्वा ‘भयनिर्गतजुगुप्सुभिरिति वक्तव्यम्' इत्युक्त्वा वृकभयम् , ग्रामनिर्गतः, अधमजुगुप्सुः-इत्युदाहृतम् । चोरत्रस्तः, भोगोपरत इत्यादौ 'सुप्सुपा' इति वा मयूरव्यंसकादित्वाद्वा समासः । अपेतापोढ । 'अल्पश-' इति स्वार्थे शस्, अत एव निपाद्विजायार्थ इति प्रयोगः स्यादिति भावः । विशेष्यलिङ्गता चेति । वचनाभावे त्वर्थशब्दस्य नित्यपुंस्त्वात् 'परवल्लिङ्गम्-' इति सर्वत्र पुँल्लिङ्गप्रयोग एव स्यादिति भावः । पञ्चमी भयेन । भयेनेति स्वरूपग्रहणम् नार्थस्य, प्रमाणाभावात् , भयभीत-' इति वार्तिकारम्भाच्च । तेन वृकात्त्रास इत्यादौ समासो न । कथं तर्हि 'भोगोपरतो प्रामनिर्गतः' इत्यादिप्रयोगाः । अत्राहुः-बहुलग्रहणात् क्वचिद्विभक्त्यन्तरमपि कृता समस्यत इति प्रागेवोकत्वात् , 'सुप्सुपा' इत्यनेन वा तदुपपत्तिरिति । अपेतापोढ । पञ्चमीति वर्तते, प्रत्ययग्रहणात्तदन्तग्रहणम् । अल्पश इत्यत्र 'बह्वल्पार्थाच्छस्कारकात्-'