________________
४२]
सिद्धान्तकौमुदी। [तत्पुरुषसमासरन्धनाय स्थाली । अश्वघासादयस्तु षष्ठीसमासाः। 'अर्थेन नित्यसमासो विशेष्यलिङ्गता चेति वनग्यम्' (वा १२०३-१२७४)। द्विजायायं द्विजार्थः एवेति नोच्येत, तर्हि बलिरक्षितग्रहणं व्यर्थ स्यात् । भूतेभ्यो बलिः, गोभ्यो रक्षितं तृणमित्यत्रापि बले तार्थतया रक्षिततृणस्य गवार्थतया च तदर्थेत्येव समाससिद्धेरिति भावः । यूपायति । अत्र चतुर्थ्यन्तवाच्ययूपार्थ दारु । अतो दारुशब्देन यूपायेत्यस्य समासः, यूपस्य दारुविकृतित्वाच्च, तक्षादिना अष्टाश्रीकृतवृक्षस्यैव यूपशब्दार्थत्वात् । अथ प्रकृतिविकृतिभावग्रहणस्य प्रयोजनमाह-नेहेति । रन्धनायेति । पाकायेत्यर्थः । 'रध हिंसायाम् । इह पाको विवक्षितः । भावे ल्युट , अनादेशः । 'रधिजभोरचि' इति नुम् । स्थाल्याश्चतुर्थ्यन्तवाच्यपाकार्थत्वेऽपि प्रकृतिविकृतिभावविरहान समासः । ननु अश्वेभ्यो घासः-अश्वघासः, धर्माय नियमो धर्मनियम इत्यादौ कथं तदर्थेन समासः, प्रकृतिविकृतिभावविरहादित्यत आह-अश्वघासादयस्तु षष्ठीसमासा इति । नचैवं रन्धनाय स्थालीत्यत्रापि षष्ठीसमासः स्यादेवेति प्रकृतिविकृतिभावनियमो व्यर्थ इति वाच्यम्, शाब्दबोधे संबन्धत्वतादर्थ्यत्वकृतवलक्षण्येन उक्तनियमसाफल्यात् । एवं च रन्धनस्य स्थालीति संबन्धत्वेन भाने षष्ठीसमास इष्ट एव । तादर्थ्यत्वेन भाने चतुर्थीसमासवारणाय तु प्रकृतिविकृतिभावनियमाश्रयणमित्यास्तां तावत् । तदेवं तदर्थेत्यंशः प्रपञ्चितः । अथेदानीमर्थशब्देन चतुर्थ्यन्तस्य समासे विशेषमाह--अर्थेनेति । अर्थशब्देन चतुर्थ्यन्तस्य नित्यसमास इति वक्तव्यम् । अन्यथा विभाषाधिकाराद्विकल्पः स्यात् । विशेष्यस्य प्रधानस्य यल्लिङ्गं तल्लिङ्गमित्यपि वक्तव्यम् । अन्यथा अर्थशब्दस्य नित्यं पुंल्लिङ्गत्वात् 'परवल्लिङ्गम्-' इति सर्वत्र पुंल्लिङ्गतैव स्यादित्यर्थः । अर्थशब्दोऽत्र वस्तुपरः । 'अर्थोऽभिधेयरैवस्तुप्रयोजननिवृत्तिषु' इत्यमरः । इह उपकारक वस्तु विवक्षितमित्यभिप्रेत्योदाहरति--द्विजायायं द्विजार्थः सूप इति । तत्र द्विजायायमित्यस्वपदविग्रहः । तत्र अर्थशब्दस्थाने अयअश्वघासादय इति । एतच्च भाष्यकृतोक्तम् । नन्वेवं रन्धनाय स्थालीत्यत्रापि षष्ठीसमासः स्यादेवेति प्रकृतिविकृतिभाव एवेति नियमो निष्फल एव । न च स्वरे विशेषः, 'चतुर्थी तदर्था-' इति पूर्वपदप्रकृतिस्वरस्यापि प्रकृतिविकृतिभाव एवेष्यमाणत्वात् । अत्राहुः-'संबन्धत्वतादर्थ्यत्वकृतवैलक्षण्येनोक्तनियमसाफल्यान्न दोषः। अत्र च मानमेतदेव भाष्यम्-'न माषाणामश्नीयात्' 'दाशरथाय मैथिली' इत्यादिप्रयोगा अपि इत्थमेव विवक्षाभेदेन निर्वाह्याः । एवं च 'पूर्वसदृश-' इति सूत्रे सदृशग्रहणं व्यर्थमिति कैयटहरदत्तादीनामुक्तिः प्रामादिकीत्यवधेयम् । शाब्दबोधकृतवैलक्षरयस्य तत्रापि सत्त्वादिति । अर्थेन नित्येति । अन्यथा विभाषाधिकारात्पक्षे