________________
प्रकरणम् १८] बालमनोरमा-तत्त्वबोधिनीसहिता। [४१ करणम् । (२-१-३५) गुडेन धाना गुडधानाः। मिश्रणक्रियाद्वारा सामय॑म् । ६६८ चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः । (२-१-३६) चतुर्यन्तार्थाय यत्तद्वाचिना अर्थादिभिश्च चतुर्थ्यन्त वा प्राग्वत् । तदर्थेन प्रकृतिविकृतिभाव एव, बलिरक्षितग्रहणाज्ज्ञापकात् । यूपाय दारु यूपदारु । नेहक्रियते खाद्यं द्रव्यमनेनेति मिश्रीकरण गुडादि । तद्वाचकं तृतीयान्तं भक्ष्यवाचकेन समस्यत इत्यर्थः । कठिनद्रव्यं खाद्यं पृथुकााद भक्ष्यं विवक्षितम् । गुडेन धाना गुडधाना इति । 'धाना भृष्टयवे स्त्रियः' इत्यमरः । गुडेन मिश्रा धाना इत्यर्थः । ननु गुडकरणत्वस्य मिश्रपदापेक्षत्वान सामर्थ्यमित्यत आह--मिश्रणेति । गुडेनेत्यस्य गुडकरणकमिश्रणे वृत्ते सामर्थ्यमिति भावः । चतुर्थी । प्रत्ययग्रहणपरिभाषया चतुर्थीत्यनेन चतुर्थ्यन्तं गृह्यते । तदर्थ, अर्थ, बलि, हित, सुख, रक्षित एषां द्वन्द्वः । चतुर्थ्यन्तमेतैः षड्भिः समस्यते, स तत्पुरुष इति फलितम् । तदर्थेत्यत्र तच्छन्देन चतुर्थ्यन्तार्थो विवक्षितः । तस्मै चतुर्थ्यन्तार्थाय इदं तदर्थम् । 'अर्थेन नित्यसमास-' इति वक्ष्यमाणः समासः । चतुर्थ्यन्तवाच्यप्रयोजनकं यत् तत् तदर्थमिति पर्यवस्यति । तदाह--चतुर्थ्यन्तार्थायेत्यादिना । तदर्थेनेति । तदर्थेन समास इति यदुक्तं तत्प्रकृतिविकृतिभाव एव भवति; न त्वन्यत्रेत्यर्थः । कुत इत्यत आह--बलिरक्षितेति । यदि तादर्थ्यमात्रे अयं समासः स्यात्, प्रकृतिविकृतिभाव इत्यादिप्रयोगस्तु भाक्तः । गुडधाना इति । ननु धानानां प्रत्येकं विभक्कावयवत्वाभावात्कथमेतदुदाहरणं संगच्छत इति चेत् । मैवम् । भृष्टयवसमुदायस्य धानात्वात्समुदाय प्रति समुदायिनामवयवत्वाच तदुपपत्तेः । चतुर्थी तदर्थाथे । तच्छब्देन प्रकृता चतुर्थी परामृश्यते, प्रत्ययग्रहणात्तदन्तग्रहणम् , चतुर्थ्यन्तेन सामर्थ्यात्तदर्थो लक्ष्यत इत्याशयेनाह-चतुर्थ्यन्तार्थाय यदिति । चतुर्थ्यन्तवाच्याय यूपाय यहार्वादि तद्वाचिना चतुर्थ्यन्तं समस्यत इत्यर्थः । बलिरक्षितग्रहणादिति । हितसुखग्रहणं तु न ज्ञापकम् , तद्योगे 'चतुर्थी चाशिषि-' इति अतादर्थेऽपि चतुर्थीसंभवादिति भावः । ननु 'चतुर्थी चाशिषि-' इति विहिता या चतुर्थी तदन्तस्य समासो न भवति, समासादाशिषोऽनवगमादिति केचिदाहुरिति कैयटेनोक्तम् । ततश्च तत्पने हितसुखग्रहणमपि बलिरक्षितग्रहणवज्ज्ञापकमेवेति चेत् । अत्र नव्याः-ब्राह्मणाय हितं ब्राह्मणहितम् , गोहितम् , गोसुखमित्यतादर्थ्यचतुर्थ्यन्तेनापि समासः स्वीक्रियते। साचातादर्थ्यचतुर्थी 'हितयोगे च' इति वार्तिकात् 'चतुर्थी तदर्था-' इत्यादिना हितसुखशब्दाभ्यां समासविधानाज्ज्ञापकाद्वा सभवतीति हितसुखग्रहणं न ज्ञापकमिति सम्यगेवेत्याहुः । यूपायेति । तादर्थे चतुर्थी । एवमग्रेऽपि यथासंभवमूह्यम् ।