________________
४०]
सिद्धान्तकौमुदी। [तत्पुरुषसमासस्तुतिनिन्दाफलकमर्थवादवचनमधिकार्थवचनम् , तत्र कर्तरि करणे च तृतीया कृत्यैः सह प्राग्वत् । वातच्छेद्यं तृणम् । काकपेया नदी । ६६६ अन्नेन व्यजनम् । (२-१-३४) संस्कारद्रव्यवाचकं तृतीयान्तमबेन प्राग्वत् । दना प्रोदनो दध्योदनः । इहान्तभूतोपसेकक्रियाद्वारा सामर्थ्यम् । ६६७ भक्ष्येण मिश्रीअतिशयेन पचतीत्यर्थः । ‘अतिशायने' "तिङश्च' इत्यनुवृत्तौ 'द्विवचनविमज्य-' इति तरप् । 'किमेत्तिव्ययघादाम्वद्रव्यप्रकर्षे' इत्याम् । अत्र तद्धितान्तेन समासनिवृत्त्यर्थ कृद्ग्रहणमिति भावः । कृत्यैरधिकार्थवचने । अर्थवादवचनमिति । अविधायकोक्तिरित्यर्थः । वातच्छेद्यं तृणमिति । वातेन छेद्यमिति विग्रहः । छेत्तुं योग्यमित्यर्थः । 'ऋहलोर्ण्यत्' इति कृत्यप्रत्ययः। कोमलत्वेन स्तुतिः, दुर्बलत्वेन निन्दा वा । काकपेयेति । 'अचो यत्' इति यत् , 'ईद्यति' इति ईत्त्वम् , गुणः । अत्र पूर्णाम्भस्त्वेन स्तुतिः, अल्पाम्भस्त्वेन निन्दा वा । अन्नेन व्यञ्जनम् । व्यजनशब्द व्याचष्टे--संस्कारेति । संस्क्रियते गुणविशेषवत्तया क्रियते अनेनेति संस्कारः, उपसेकादिसाधनं दध्यादि, तद्वाचकमित्यर्थः । अन्नेनेति । अन्नम् अोदनः, तद्वाचकशब्देनेत्यर्थः । 'भिस्सा स्त्री भक्तमन्धोऽन्नम् ' इति कोशः । दध्ना ओदनो दध्योदन इति । नन्विह द ति करणत्वस्य उपसिक्तपदापेक्षत्वाद् असामर्थ्यात् कथमिह समास इत्यत आह--अन्तर्भूतेति । उपसेकक्रियां विना दनोऽन्नसंस्कारकत्वानुपपत्त्या दना इत्यस्य दधिकरणकोपसेके वृत्ते सामर्थ्यमिति भावः । तदुक्तं भाष्ये--'युक्लार्थसंप्रत्ययाच सामर्थ्यम्' इति । भक्ष्येण मिश्रीकरणम् । मिश्री'अमूर्धमस्तकात्-' इत्यलुक् । कर्तृत्वकरणत्वयोः क्रियानिरूपितत्वेन क्रियासमर्पककृदन्तेनैव भवेत्समासः, 'सुपा' इत्यधिकारात्तिङन्तेन तु नातिप्रसङ्ग इत्याशयेन पृच्छतिकृता किमिति । इतरस्तु तिङन्तप्रकृतिकतद्धितान्तप्रकृतिकसुबन्तेनासमासस्तत्फलमित्याशयेन प्रत्युदाहरति-काष्ठुरिति । कृत्यैरधिकार्थ । पूर्वसूत्रस्यैव प्रपश्चोऽयं न तु नियमार्थमित्याहुः । वातच्छेद्यमिति । पूर्ववत् कृत्यः । कोमलत्वाद्वातेनापि छेत्तुं शक्यत इति स्तुतिः, वातेनापि छेत्तुं शक्यते निर्बलत्वादिति निन्दा वा। काकपेयेति । 'शकि लिङ् च' इति शक्यार्थे कृत्यः । पूर्णतोयत्वात्तटस्थैः काकैरपि पातुं शक्येति स्तुतिः, अल्पतोयत्वेन निन्दा वा । अनेन । 'भिस्सा स्त्री भक्तमन्धोऽनमोदनोऽत्री' इत्यमरः । व्याख्यानानेह स्वरूपग्रहणं तदाह-संस्कारकेत्यादि । भक्ष्येण । खरविशदमभ्यवहार्य भक्ष्यम् । खरं कठिनं विशदं विविक्तावयवं खोयं मक्ष्यमित्यर्थः । यत्प्रत्ययान्तस्य एरजन्तस्य च भक्षयतस्तत्रैव प्रयोगात् । अम्भत
, 'असदुक्तिः' इति क्वचित् पाठः ।