________________
प्रकरणम् १८] बालमनोरमा-तत्त्वबोधिनीसहिता। [३६ ग्रहणे सोपसर्गस्यापि ग्रहणम्, 'मिनं चानुपसर्गमसन्धौ' (सू ३८८८) इत्यत्रानुपसर्गग्रहणात् । गुडसंमिश्रा धानाः । 'प्रवरस्योपसंख्यानम्' (वा १२५६) मासेनावरो मासावरः । ६६४ कर्तृकरणे कृता बहुलम् । (२-१-३२) कर्तरि करणे च तृतीया कृदन्तेन बहुलं प्राग्वत् । हरिणा बातो हरित्रातः । नखैभित्रो नखभिन्नः । कृग्रहणे गतिकारकपूर्वस्यापि ग्रहणम् (प २६) नलनिर्भिवः । कर्तृकरणे इति किम्-मिचाभिरुषितः । हेतावेषा तृतीया । बहुलग्रहणं सर्वोपाधिम्यभिचारार्थम् । तेन 'दात्रेय लूनवान्' इत्यादी न । कृता किम्-काष्ठैः पचतितराम् । ६६५ कृत्यैरधिकार्थवचने । (२-१-३३) मिति । कुत इत्यत आह--मिश्रं चेति । असन्धौ मिश्रेत्युत्तरपदमुपसर्गहीनं तृतीयान्तात् परमन्तोदात्तमिति तदर्थः । अत्रानुपसर्गग्रहणादितरत्र मिश्रग्रहणे सोपसर्गग्रहणं विज्ञायत इत्यर्थः । मासेनावर इति । मासेन पूर्व इत्यर्थः । न्यून इत्यर्थे ऊनार्थकत्वादेव सिद्धम् । कर्तृकरणे । कर्ता च करणं चेति समाहारद्वन्द्वात् सप्तमी। तृतीयेत्यनुवर्तते । प्रत्ययग्रहणपरिभाषया तदन्तग्रहणम् । कृतेत्यपि तथैव । तदाह-- कर्तरि करणे चेति । प्राग्वदिति । समस्यते स तत्पुरुष इत्यर्थः । इह कृद्ग्रहणेन क्तप्रत्यय एव गृह्यते, बहुलग्रहणादिति भाष्यम् । अतः कान्तमेवोदाहरति-- हरिणा त्रात इति । पालित इत्यर्थः । ननु कृदन्तस्य समर्थविशेषणत्वेऽपि समासप्रत्ययविधौ तदन्तविधिप्रतिषेधान्नखनिर्भिन्न इत्यत्र न स्यादित्यत आह-कृदग्रहण इति । परिभाषेयं 'गतिरनन्तरः' इति सूत्रे भाष्ये स्थिता । पचतितरामिति । मिश्रं चेति । 'पणबन्धेनैकार्थ्य संधिस्तत्राप्रयुज्यमानो मिश्रशब्द उपसर्गरहितोऽन्तोदात्तः' इति सूत्रार्थः । अवरस्येति । अत्र व्याचक्षते-ऊनार्थेत्येव सिद्धत्वादिदं सुत्यजमेव । न चावरशब्दस्योनार्थकत्वमप्रसिद्धमिति वाच्यम् । 'सप्तदशावराः सत्रमासीरन्' इति श्रुतौ 'अव्यक्तानुकरणाद् द्वयजवरार्धात्' इति सूत्रे च तत्प्रसिद्धेरिति । कर्तृकरणे । समाहारद्वन्द्वात्सप्तमीत्याशयेनाह-कर्तरि करणे चेति । अत्र केचित्-कर्तृकरणे इति प्रथमाद्विवचनं तृतीयया विशेष्यते, विशेषणेन च तदन्तविधिस्तेन तृतीयान्ते कर्तृकरणे कृदन्तेन समस्येते इति व्याख्यान्तरमित्याहुः । सर्वोपाधीति । कर्तरि करणे च या तृतीया तदन्तमपि बहुलग्रहणात् कचिन्न समस्यते । क्वचित्तु विभक्त्यन्तरमपि समस्यते बहुलग्रहणादेवेत्यर्थः । समासाभावं प्रदर्शयति-दात्रेण लूनवानित्यादाविति । आदिशब्देन दात्रेण छिन्नवान् हस्तेन कुर्वन् इत्यादि ग्राह्यम् । विभक्तयन्तरमपि समस्यत इत्यस्योदाहरणं तु पादहारकः, गलेचोपकः । ह्रियत इति हारकः, बाहुलकाल्कर्मणि एवुल् । पादाभ्यामित्यपादानपञ्चम्यन्तस्य समासः । 'चुप मन्दायां गतौ हेतुमरिणजन्तात्कर्मणि एवुल ।