________________
३८)
सिद्धान्तकौमुदी। [तत्पुरुषसमास सदृशसमोनार्थकलहनिपुणमिश्रलक्ष्णैः । (२-१-३१) तृतीयान्तमेतैः प्राग्वत् । मासपूर्वः । मातृसदृशः । पितृसमः। ऊनार्थे–माषोनं कार्षापणम् । माषविकलम् । वाकलहः । प्राचारनिपुणः । गुडमिश्रः। प्राचारलषणः । मिश्र
बन्धिक्षीरादिभोजनेन देवदत्तस्य वपावत्त्वमित्यस्ति तत्कृतत्वम् , किं तु न गुणवचनोंऽसौ । पूर्वसदृश । एतैरिति । पूर्व, सदृश, सम, ऊनार्थ, कलह, निपुण, मिश्र, श्लक्ष्ण एतैरित्यर्थः । मासपूर्व इति । मासेन पूर्व इति विग्रहः। मासात् प्रागुत्पन्न इत्यर्थः । यद्यप्यवधित्वसंबन्धे 'अन्यारादितरर्ते-' इति दिक्शब्दयोगे पञ्चमी प्राप्ता, दिशि दृष्टः शब्दो दिक्शब्द इत्यभ्युपगमात् । तथाप्यत एव ज्ञापकात् तृतीया । हेतौ तृतीयेत्यन्ये । मातृसदृश इति । मात्रा सदृश इति विग्रहः । पितृसम इति। पित्रा सम इति विग्रहः। 'तुल्यार्थैरतुलोपमाभ्याम्-' इति तृतीया। 'तुल्यार्थैः । इति षष्ठयां षष्ठीसमासेनैव सिद्धमित्याहुः । ऊनार्थेति । उदाहरणसूचनमिदम् । माषोनमिति । माषाख्यपरिमाणविशेषेण ऊनं परिमाणमित्यर्थः । अत एव ज्ञापकादवधित्वे तृतीया, हेतौ वा । अर्थग्रहणं च ऊनेनैव संबध्यते, न तु पूर्वादिभिरपि, समसदृशयोः पृथगुपादानात् । अर्थग्रहणस्य प्रयोजनमाह--माषविकलमिति । माषेण विकलमिति विग्रहः । हीनमित्यर्थः । पूर्ववत् तृतीया । वाक्कलह इति । वाचा कलह इति विग्रहः । आचारनिपुण इति । श्राचारेण निपुण इति विग्रहः। आचारहेतुकनैपुण्यवानित्यर्थः। गुडमिश्र इति । गुडेन मिश्र इति विग्रहः । आचारश्लदण इति । आचारेण श्लक्ष्ण इति विग्रहः । आचारहेतुककुशलत्ववानित्यर्थः । ननु गुडसंमिश्रा इत्यत्र कथं समासः ? सुबन्तविशेषणत्वेऽपि समासप्रत्ययविधौ तदन्तविधिप्रतिषेधात् । तत्राह--मिश्रग्रहणे सोपसर्गस्यापि ग्रहण
किम् , गोभिर्वपावान् । गोसंबन्धिदध्यादिभोजनेन देवदत्तस्य वपावत्त्वमित्यस्ति तत्कृतत्वम् , न त्वसौ गुणवचनः । पूर्वसदृश । इह समसदृशाभ्यां योगे 'तुल्याथैःइति तृतीया। अन्यैर्योगे त्वत एव वचनात्, 'हेतौ' इति वा तृतीया । इह सदृशग्रहणं व्यर्थ षष्ठीसमासेन गतार्थत्वात् । न च 'तत्पुरुषे तुल्यार्थतृतीया-' इति पूर्वपदप्रकृतिस्वरार्थमिदमिति वाच्यम् । 'सदृशप्रतिरूपयोः सादृश्ये' इति सूत्रेण तत्सिद्धेरिति मनोरमायां स्थितम् । विद्यया सदृशो विद्यासदृश इत्यादौ हेतुत्वप्रकारकबोधार्थ तृतीयासमासोऽप्यावश्यक इति त्वन्ये । पूर्वसूत्रेणैव तत्कृतत्वात्तृतीयासमासोऽपि सिध्यतीत्यपरे । ऊनार्थ इति । पूर्वसूत्रेऽर्थशब्देन समासस्योक्तत्वादिहार्थग्रहणमभिधेयपरम् । तबोनशन्देनैव संबध्यते, न तु पूर्वादिभिः, समसदृशयोः पृथग्ग्रहणादिति भावः ।