________________
प्रकरणम् १८] बालमनोरमा-तत्त्वबोधिनीसहिता। [३७ धान्येनार्या धान्यार्थः । 'तस्कृत' इति किम्-अक्षणा काणः । ६६३ पूर्वभेदने' भावे घञ् । खण्डनं खण्डः । मत्वर्थीयः अर्शआद्यच् । शकुलयेति करणे तृतीया । शकुलाकृतखण्डनक्रियावानित्यर्थः । यत्तु 'आकडारात्-' इति सूत्रभाष्ये 'समासकृदन्ततद्धितान्ताव्ययसर्वनामजातिसंख्यासंज्ञाशब्दभिन्नमर्थवच्छब्दस्वरूपं गुणवचनसंज्ञं भवति' इत्युक्तम् । तदेतत् प्रकृते न प्रवर्तते, गुणमुक्तवता गुणवचनेनेति भाष्येण यौगिकत्वावगमात् । अतोऽत्र गुणशब्देन धर्ममात्रं विवक्षितम् । एवं च खण्डशब्दस्य क्रियावचनत्वेऽपि न क्षतिः । तत्त्वबोधिन्यां तु 'वोतो गुणवचनात्' इत्यत्र 'सत्त्वे निविशतेऽपैति-' इत्यादिलक्षणलक्षितो गुणोऽत्र गृह्यत इत्युक्तम् । तयाख्यावसरे क्रियाया गुणत्वं नास्तीत्यप्युक्तम् । इह तु खण्डशब्दस्य क्रियावाचिनोऽपि गुणवचनत्वमास्थितम् । तत्तु प्रकृतसूत्रस्थभाष्यविरुद्धत्वात् पूर्वोत्तरविरुद्धत्वाच्चो. पेक्ष्यम् । अर्थशब्देन समासमुदाहरति-धान्येनेति । अर्थशब्दो धनपरः । हेतौ तृतीया । धान्यहेतुकं धनमित्यर्थः । अत्र धनस्य धान्यहेतुकत्वेऽपि तत्करणकत्वाभावादप्राप्तौ पृथगुक्तिः, धान्येनेति प्रकृत्यादित्वात्तृतीया, धान्याभिन्नं धनमित्यर्थ इति केचित् । ननु शङ्कुलया खण्ड इत्यत्र 'कर्तृकरणे कृता बहुलम्' इत्येव सिद्धे तत्कृतेति व्यर्थमिति पृच्छति--तत्कृत इति किमिति । गुणवचनेन चेत् तत्कृतेनैवेति नियमार्थ तत्कृतग्रहणमित्यभिप्रेत्य प्रत्युदाहरति-अक्षणा काण इति । नाक्षणा काणत्वं कृतम् , किं तु रोगादिनेति भावः । गुणवचनेनेति किम् ? गोभिर्वपावान् । गोसं'कृत्यल्युटो बहुलम्' इति भूते कर्तरि ल्युट् । गुणमुक्त्वा यो द्रव्यमुक्तवान् स गुणवचनः, स्तेन घृतेन पाटवमिति गुणमात्रनिष्ठेन समासो न भवति । गुणश्चात्र 'सत्त्वे निविशतेऽपैति-' इत्यादिलक्षणलक्षितो गृह्यते, न तु प्रवृत्तिनिमित्तं घटत्वादिः, तत्कृत. त्वासंभवादिति । शङ्कलया खण्ड इति । करणेऽत्र तृतीया । 'खडि भेदने' इत्यस्माद्भावे घमि व्युत्पादितः खण्डशब्दः क्रियारूपापन्ने गुणे वर्तित्वा पश्चान्मत्वर्थलक्षणया तद्वति द्रव्ये वर्तत इति गुणवचनो भवति । धान्येनेति । करणे तृतीया । अर्थ्यत इत्यर्थः प्रयोजनम् । कर्मणि घञ् । अर्थनमर्थः अभिलाषो वा । भावे घञ् । अर्थशब्दस्य रूढत्वे तु धान्येनेति हेतौ तृतीया, 'कर्तृकरणे कृता-' इत्यनेन गतार्थत्वशङ्कवात्र नेति रूढत्वाभ्युपगमपक्ष एव श्रेयान् । तत्कृतेति किमिति । 'कर्तृकरणे कृता-' इति सिद्धमिति प्रश्नः । इतरो गुणवचनेन चेत्तत्कृतेनैवेति नियमार्थमिदमित्याशयेन प्रत्युदाहरति-अक्ष्णेति । न त्वक्षणा काणत्वं कृतं किं तु कर्मादिनैवेति भावः । तृतीया त्विह 'येनाविकारः' इत्यनेन । काण इति । 'कण निमीलने' इत्यस्माद्धम् । गुणवचनत्वं तकरीत्या खण्डशब्दस्येवास्यापि बोध्यम् । गुणवचननेति