________________
३६]
सिद्धान्तकौमुदी। [तत्पुरुषसमासनित्यर्थः । ६६१ अत्यन्तसंयोगे च । (२-१-२६) 'कालाः' इत्येव । प्रकान्तार्थ वचनम् । मुहूर्त सुखं मुहूर्तसुखम् । ६६२ तृतीया तत्कृतार्थेन गुणवचनेन । (२-१-३०) 'तस्कृत' इति लुप्ततृतीयाकम् । तृतीयान्तं तृतीयान्तार्थकृतगुणवचनेनार्थशब्देन च सह प्राग्वत् । शङ्कलया खण्डः शङ्कलाखण्डः । मासं प्रमित इति विग्रहः । प्रपूर्वकाद् माधातोः 'आदिकर्मणि क्तः कर्तरि च' इति कर्तरि क्तः । तदाह-मासं परिच्छेत्तुमिति । इह प्रतिपचन्द्रेण मासस्य नात्यन्तसंयोग इति भावः । अत्यन्तसंयोगे च । काला इत्येवेति । तेन अत्यन्तसंयोगे कालवाचिनो द्वितीयान्ताः सुबन्तेन सह वा समस्यन्त इति लभ्यत इत्यर्थः । ननु 'कालाः' इति पूर्वसूत्रेणैव सिद्धे किमर्थमिदमित्यत आह–अक्कान्तार्थमिति । अत्र केनेति निवृत्तमिति भावः । मुहूर्त सुखमिति । अत्यन्तसंयोगे द्वितीया । मुहूर्तव्यापि सुखमित्यर्थः । तृतीया तत्कृत । तत्कृतेत्यस्याव्यवहितमप्यर्थेनेति परित्यज्य गुणवचनेनेत्यत्रान्वयं वक्तुमाह-तत्कृतेति लुप्ततृतीयाकमिति । तत्र तृतीयेत्यनेन तृतीयान्तं विवक्षितम् । तत्कृतेति लुप्ततृतीयाकं भिन्नं पदम् । तच्छब्देन तृतीयान्तपरामशिना तदर्थो लक्ष्यते । तत्कृतेत्येतच्च गुणद्वारा गुणवचनेऽन्वेति । ततश्च तृतीयान्तं तृतीयान्तार्थकृतो यो गुणस्तद्वाचिना समस्यते, अर्थशब्देन च तृतीयान्तं समस्यत इति वाक्यद्वयं संपद्यत इति भाष्ये स्थितम् । तदाह-तृतीयान्तमित्यादिना । गुणेत्यस्य तत्कृतत्वसापेक्षत्वेऽपि सौत्रः समासः । इदं सूत्रं कृतशब्दाथेद्वारक एव सामर्थ्ये प्रवर्तते, न तु साक्षात्परस्परान्वये- इति भाष्ये स्पष्टम् । न च घृतेव पाटमित्यत्रातिप्रसङ्गः शङ्कयः, गुणेनेति सिद्धे वचनग्रहणाद् गुणोपसर्जनद्रव्यवाचिशब्दो गृह्यत इति व्याख्यानात् । शङ्कुलया खण्डः शकुलाखण्ड इति । देवदत्त इति शेषः । शकुलाखण्डो देवदत्त इत्येव भाष्य उदाहृतम् । 'खडि द्वितीयान्ताः क्लान्तेन सह वा समस्यन्त इति सूत्रार्थः । ननु 'काला अत्यन्तसंयोगे' इत्येवास्तु केनेति निवृत्तम् , नार्थो योगविभागेनेत्यत श्राह-अनत्यन्तेति । मासप्रमित इति । 'माङ् माने', श्रादिकर्मणि क्तः कर्तरि । इह प्रतिपच्चन्द्रेण नास्त्यत्यन्तसंयोगः । मुहूर्तमिति । मुहूर्तव्यापीत्यर्थः । 'कालाध्वनोरत्यन्तसंयोगे' इति द्वितीया । तृतीया तत्कृता । लुप्तेति । सौत्रत्वादिति भावः । तच्छब्देन तृतीयान्तपरामर्शिना तदर्थो लक्ष्यते। तदर्थकृतत्वं च गुणवाचकस्यार्थद्वारा विशेषणम् । तृतीयान्तार्थकृतो यो गुणस्तद्वचनेनेति । तदेतद्याचष्टे-तृतीयान्तार्थेत्यादिना । अर्थशब्देन चेति । सोऽपि स्वतन्त्रं निमित्तमिति भाव । नन्वर्थेन समासासंभवात्तवाची शब्दो प्रहीष्यते, किमत्र वचनग्रहणेन। अत्राहः-गुणमुक्तवान गुणवचनः ।