________________
प्रकरणम् १८] बालमनोरमा-तत्त्वबोधिनीसहिता। [३५ खट्वाप्रकृतिकं द्वितीयान्तं कान्तप्रकृतिकेन सुबन्तेन समस्यते निन्दायाम् । खट्वारूढो जाल्मः। नित्यसमासोऽयम्। न हि वाक्येन निन्दाऽवगम्यते।६८६ सामि। (२-१-२७) सामिकृतम् । ६६० कालाः । (२-१-२८) 'क्लेन' इत्येव । अनत्यन्तसंयोगार्थ वचनम् । मासप्रमितः प्रतिपश्चन्द्रः ।मासं परिच्छेत्तुमारग्धवास्वायंकृतिरिति । स्वयंकृतस्यापत्यमित्यर्थे 'अत इञ्' इति स्वयंकृतशब्दात् षष्ठयन्तादिनि तद्धितान्तप्रातिपदिकावयवत्वात् सुब्लुकि, 'यस्येति च' इत्यकारलोपे, आदिवृद्धौ, स्वायंकृतिशब्दः । समासाभावे तु कृतशब्दस्यैव षष्ठयन्तत्वात्तत इञि ऋकारस्यादिवृद्धौ रपरत्वे स्वयंकार्तिः इत्येव स्यादिति भावः। वस्तुतस्तु असामर्थ्यादिह न तद्धितः। स्वयंकृतशब्दस्य समासस्वरः प्रयोजनम् । खवा क्षेपे। क्तेनेत्यनुवर्तते । प्रत्ययग्रहणात्तदन्तविधिः । क्षेपो निन्दा । द्वितीयेति सुपेति चानुवर्तते । तदुभयमपि प्रत्यय. ग्रहणपरिभाषया तदन्तपरं सत् प्रकृतिप्रत्ययसमुदायपरम् । खट्वाशब्दस्य च सुब्धटितसमुदायात्मकत्वासंभवाद् अत्र खट्वाशब्दः क्तप्रत्ययान्तशब्दश्च तत्प्रकृतिके लाक्षणिक इत्याह-खवाप्रकृतिकमिति । खवारूढो जाल्म इति । 'जाल्मोऽसमीक्ष्यकारी' इत्यमरः । खट्वा अम् श्रारूढ स् इत्यलौकिकविग्रहः । लौकिकविग्रहस्तु नास्तीत्याह-नित्यसमासोऽयमिति । तत् कुत इत्यत आह-न हि वाक्येन निन्दाऽवगम्यत इति । वृत्त्यर्थबोधकं वाक्यं लौकिकविग्रहः । तत्र खट्वामारूढ इति वाक्यं हि गृहस्थाश्रमिणि निन्दा न गमयति । खट्वारूढ इति समासस्तु रूढ्या निन्दा गमयति । तथा च भाष्यम् 'अधीत्य स्नात्वा गुर्वनुज्ञातेन खट्वा आरोढव्या । यस्तावदन्यथा करोति, स खट्वारूढोऽयं जाल्म इत्युच्यते' इति । अत्र जाल्म इत्यनेन उद्वृत्ते अयं शब्दो रूढः, अवयवार्थे तु नाभिनिवेष्टव्यम् इति सूचितम् । सामि । सामीत्यव्ययमर्धे वर्तते । तत् क्तान्तप्रकृतिकसुबन्तेन समस्यंत इत्यर्थः । सामिकृतमिति । समासाभावे तु तद्धितवृत्तौ सामिकार्तिरिति स्यादिति भावः । कालाः । तेनेत्येवेति । क्वेनेत्यनुवर्तत एवेत्यर्थः । कालवाचिप्रकृतिकद्वितीयान्ताः क्तप्रत्ययान्तप्रकृतिकसुबन्तेन वा समस्यन्त इत्यर्थः । ननु 'अत्यन्तसंयोगे च' इत्युत्तरसूत्रेणैव सिद्धे किमर्थमिदमित्यत आह-अनत्यन्तेति ।मासप्रमित इति। भावः । खदारूढ इति । 'जाल्मोऽसमीक्ष्यकारी स्यात्' इत्यमरः । वेदं व्रतानि च समाप्य समावृत्तेन हि खट्वारोढव्या । ब्रह्मचर्य एव भूमिशयना.ऽपि यः खवामारोहति स जाल्मः । रूढश्चायम् । तेन खट्वामारोहतु मा वा, निषिद्धानुष्ठानपरः सर्वोऽपि खट्वारूढ इत्युच्यते । अत एवाह-नित्येति । सामि । सामीत्येतदव्ययमर्धशब्दपर्यायः । कालाः । बहुवचननिर्देशः स्वरूपनिरासार्थः । कालवाचिनो