________________
३४ ]
सिद्धान्तकौमुदी | [ तत्पुरुषसमास
'गम्यादीनामुपसंख्यानम्' ( वा १२४७) ग्रामं गमी ग्रामगमी । अनं बुभुङः अब्रबुभुचुः । ६८७ स्वयं क्लेन। (२-१-२५) 'द्वितीया-' (सू०६८६ ) इति न संबध्यते, अयोग्यत्वात् । स्वयंकृतस्यापत्यं स्वायंकृतिः । ६८८ खट्वा क्षेपे । (२-१-२६)
1
ग्राम प्राप्तः । संशयमापन्नः संशयापन्नः । गम्यादीनामिति । गम्यादिप्रकृतिकैः सुबन्तैरपि द्वितीयान्तं समस्यते स तत्पुरुष इति यावत् । ग्रामं गमीति । 'गमेरिनि:' इति श्रौणादिक इनिप्रत्ययः, स च 'भविष्यति गम्यादयः' इति वचनाद् भविष्यति काले भवति । ‘अकेनोः -' इति कृद्योगषष्ठीनिषेधात् कर्मणि द्वितीया । ग्रामं गमिष्यन्नित्यर्थः । अन्नं बुभुक्षुरिति । भुजेः सन् । 'सनाशंसभिक्ष उ:' । 'न लोक- ' इति कृद्योगषष्ठीनिषेधात् कर्मणि द्वितीया । बुभुक्षुशब्दो गम्यादौ पठित इति भावः । स्वयं क्लेन । क्तप्रत्ययान्त प्रकृतिकसुबन्तेन स्वयमित्यव्ययं समस्यते स तत्पुरुष इत्यर्थः । योग्यत्वादिति । स्वयमित्यव्ययस्य आत्मनेत्यर्थकस्य कर्तृशक्तिप्रधानतया तृतीयाया एवोचितत्वादिति भावः । स्वयमित्यव्ययस्य समासे असमासेऽपि को भेदः । असमासेऽपि 'अव्ययादाप्सुपः' इति लुकः प्रवृत्तेरित्यत आह-- स्वयंकृतस्यापत्यं समासविधायकत्वं सिध्यतीति । अथवा 'सुप्सुपा' इति समासस्यानित्यत्वे आकरग्रन्थ एव प्रमाणम्, अन्यथा 'सिन्नित्यसमासयोः' इति वार्तिके 'नित्यग्रहणेन नार्थ:' इदमपि सिद्धं भवति–वाप्यामश्वो वाप्यश्वः, इत्यादिप्रागुक्तभाष्यकैयटग्रन्थस्यासामञ्जस्यापत्तेरिति दिक् । ननु कृष्णश्रित इत्यस्य कृष्णकर्मकश्रयणकर्तेति ह्यर्थः, स च कृष्णः श्रितो येनेति कर्मणि क्लान्तेन बहुव्रीहिणापि सुलभ इति किमनेन समासारम्भेण । मैवम् । बहुत्री श्रितकृष्ण इति निष्ठान्तस्य पूर्वनिपातप्रसङ्गात् । ' शेषाद्विभाषा' इति समासान्तः कप् प्रसज्येतेति दिक् । दुःखातीत इति । अतिपूर्वकादिणः कर्तरि क्तः । अवशिष्टान्यप्युदाहरणान्यूयानि । कूपपतितः । यद्यपि 'तनिपतिदरिद्रातिभ्यः-’ इति विकल्पितेट्कत्वाद् 'यस्य विभाषा' इतीरिनषेधेन भाव्यम्, तथाप्यत एव निपातनादिडित्याहुः । वस्तुतस्तु चुरादावदन्तेषु पठितस्य 'पत गतौ च' इत्यस्याश्रयणेन पतितः सिध्यति, 'यस्य विभाषा' इत्यत्रैकाच इत्यनुवृत्तेः सर्वसंमतत्वात् । ग्रामगतः । तुहिनात्यस्तः । अत्यासो व्यतिक्रमः । सोऽपि गतिविशेष एवेति कर्तरि क्तः, आदिकर्मणि क्लो वात्राभ्युपेयः । सुखप्राप्तः । दुःखापन्नः । गम्यादीनामिति । गम्यादयश्च प्रयोगतो ज्ञेयाः । ग्रामगमीति । 'गमेरिनिः' इत्यौणादिक इनिः, स च 'भविष्यति गम्यादयः' इति भविष्यत्काले । 'अकेनोः -' इति षष्ठीनिषेधात्कर्मरिण द्वितीया । अयोग्यत्वादिति । स्वयमित्यस्यात्मनेत्यर्थकस्य कर्त्रर्थतया द्वितीयान्तत्वानुपपत्तिरिति भावः । स्वायंकृतिरिति 1 असति समासे कार्तिरिति स्यादिति
I