________________
प्रकरणम् १८]
बालमनोरमा-तत्त्वबोधिनीसहिता।
[३३
पतिदरिद्रातिभ्यः सनो वेटकत्वेन 'यस्य विभाषा' इति इरिनषेधप्राप्तावपि अत एवं निपातनादिट् । ग्रामं गतः ग्रामगतः, ग्राममत्यस्तः अतिक्रान्तः ग्रामात्यस्तः, ग्रामं प्राप्तः द्वितीयान्तमिति । श्रितादिप्रकृतिकैरिति । यद्यपि संबोधने सुबन्तत्वं संभवति तथाप्यन्यत्रापि समासस्येष्टत्वात् श्रितादयस्तद्घटितसमुदाये लाक्षणिका इह गृह्यन्त इति भावः । एवं 'खट्वा क्षेपे' 'गर्गादिभ्यो यज्' इत्यादावप्यूयम् । न हि खट्वेत्यस्य द्वितीयान्तत्वम् , गर्गादीनां षष्ठयन्तत्वं वा संभवति । स्यादेतत् , द्वितीयान्तस्य श्रितप्रकृतिकसुबन्तेन समासे काष्ठश्रितेयो न सिध्येत् । श्रितशब्दाथापि ततः सुपि काठं श्रिता काष्ठश्रितेति समासे श्रिताशब्दस्यैव टाबन्तत्वात् , ततः 'स्त्रीभ्यो ढक्' इति ढकि काष्ठश्रेतेय इति स्यात् । 'गतिकारकोपपदानाम् -' इति सुबुत्पत्तेः प्राक् कृदन्तेन समासे तु श्रितान्तस्य टाबन्तत्वादिष्टं सिध्यतीति चेत् । मैवम्, प्रधामन्त्रीप्रत्यये तदादिनियमाभावेन काष्ठश्रितेयस्य निर्बाधत्वात् । न च कदाचित् त्रिताशब्दादपि ढक् स्यादिति वाच्यम् , जहत्स्वार्थायां वृत्तौ श्रिताशब्दस्यानर्थकत्वेनापत्ययोगासंभवात् । अजहत्स्वार्थायामपि न दोषः, समुदायावयवसंनिधौ समुदायस्यैव कार्यप्रयोजकत्वात् । अन्यथा सुन्दरदुहितुरपत्यं सुन्दरदौहित्र इत्यापत्तेरिति दिक् । कृष्णं श्रित इति । 'न लोका-' इति षष्ठीनिषेधः । कृष्णभित इति । 'प्रथमानिर्दिष्टम्-' इति द्वितीयान्तस्य पूर्वनिपातः । यद्यपीह श्रितशब्दोऽपि प्रथमानिर्दिष्टस्तथापि समासविधायके 'प्रथमानिर्दिष्टमुपसर्जनम्' इत्युक्तमिति नास्त्यतिप्रसङ्गः । नन्वेवमव्ययादीनामुपसर्जनसंज्ञार्थम् 'अव्ययं विभक्ति-' इत्यादिना समासविधानस्यावश्यकत्वात् 'सुप्सुपा' इति समासस्यानित्यत्वे प्रागुतज्ञापकं न संभवत्येव, तथा चाव्ययीभावतत्पुरुषादिसमासाभावपक्षे 'सुप्सुपा' इति समासप्रवृत्त्या अप विष्णोः, परि विष्णोः, 'कृष्णं श्रितः, राज्ञः पुरुष इत्यादिविग्रहवाक्यानि न सिध्यरनिति चेत्', अत्राहुः-पुनः समासविधानं न केवलमुपसर्जनसंज्ञार्थम् , तस्याः प्रकारान्तरेणापि सिद्धेः। तथाहि-'प्राक्कडारात्समासः' इत्यनन्तरं 'प्रथमानिर्दिष्टमुपसर्जनम्' 'एकविभक्ति चापूर्वनिपाते' इति पठित्वा समासाधिकारे प्रथमानिर्दिष्टमिति व्याख्यायामुपसर्जनसंज्ञा सिम्यत्येव, विभक्त्यर्थादिषु विद्यमानमव्ययं सुबन्तेन चेत्समस्यते स समासोऽव्ययी. भावः स्यात् , द्वितीयान्तं चेत्स समासस्तत्पुरुषः, इत्येवं व्याख्यानादव्ययीभावतत्पु. रुषादिसंज्ञापि सिध्यतीति पुनः समासविधानं व्यर्थ सज्ज्ञापयतीति । ननु 'अध्ययं विभक्ति-' इत्यादीनां समासविधा कत्वे सिद्धे भवदुक्तमेतत्स्यात् , तत्रैव मानं न पश्याम इति चेत्, अत्र केचित्-उक्तात्यैवोपसर्जनसंज्ञायां सिद्धायां 'प्रथमानिर्दिष्टम्-' इति सूत्रे समासप्रहणं व्यर्थ सत्समासविधायके प्रथमानिर्दिष्टमित्यर्थलाभार्थम् , तेनामीषां