________________
३२ ]
सिद्धान्तकौमुदी। [ तत्पुरुषसमास तात्यस्तप्राप्तापनः । (२-१-२४) द्वितीयान्तं श्रितादिप्रकृतिकैः सुबन्तैः सह वा समस्यते, स तत्पुरुषः। कृष्णं श्रितः कृष्णश्रितः। दुःखमतीतो दुःखातीत इत्यादि। रान्तोत्तरपदो द्विगुः स्त्रियाम्' इति तु न भवति, समासान्तस्य टचः समुदायावयवत्वेन उत्तरपदावयवत्वाभावात् । न च 'संख्यापूर्वो द्विगुश्च' इति पाठे द्विगुतत्पुरुषसंज्ञयोः पर्यायेण प्रवृत्तिः स्यात् , अतः समुच्चयार्थ 'द्विगुश्च' इति पृथक्सूत्रमस्त्विति वाच्यम् , संख्यापूर्व इति द्विगुरिति च योगौ विभज्य पूर्वेण संख्यापूर्वस्य तपुरुषसंज्ञाविधिः, द्विगु. रित्यनेन द्विगुसंज्ञाविधिरित्याश्रयणे सति, चकारमन्तरेणापि पर्यायेण प्रवृत्तिसिद्धया चका. रस्य समुच्चयार्थत्वोपपत्तः । द्वितीया श्रित । द्वितीयान्तमिति । प्रत्ययग्रहणपरिभाषया लभ्यस्तदन्तविधिः । ननु सुपेत्यनुवृत्तं बहुवचनान्ततया विपरिणतं प्रत्ययग्रहणपरिभाषया सुबन्तपरम् । प्रत्ययग्रहणपरिभाषया च प्रत्ययग्रहणे प्रकृतिप्रत्ययसमुदायग्रहणं लभ्यते । तथा च सुबन्तैरित्यस्य सुप्तत्प्रकृतिसमुदायैरित्यर्थः पर्यवस्यति । श्रितादिशब्दास्तु प्रत्ययान्ता एव, न तु सुबन्ताः, तेषां सुब्घटितसमुदायात्मकत्वाभावादित्यत आह-श्रितादिप्रकृतिकैः सुबन्तैरिति । श्रितादिशब्दाः श्रितादिप्रकृतिकेषु लाक्षणिका इति भावः । 'गतिकारकोपपदानां कृद्भिः सह समासवचनं प्राक्सुबुत्पत्तेः' इत्यस्य तु नायं विषयः, 'कर्तृकरणे कृता-' 'साधनं कृता' इतिवत् कारकविशेषानुपादानादिति प्रौढमनोरमायां स्थितम् । न च श्रितादीनां समर्थविशेषणत्वात्तदन्तविधौ श्रितान्तादिशब्दप्रकृतिकरित्यर्थलाभात् कृष्णं परमश्रित इत्यत्रापि समासः स्यादिति वाच्यम् , समास प्रत्ययविधौ तदन्तविधिप्रतिषेधात् । कृष्णं श्रित इति । श्रयतेर्गतिविशेषार्थकत्वाद् ‘गत्यर्थाकर्मक-' इति कर्तरि क्तः। 'न लोक-' इति कृद्योगषष्ठीनिषे. धात् कर्मणि द्वितीया। समासविधौ द्वितीयेति प्रथमानिर्दिष्टत्वात् कृष्णशब्दस्य पूर्वनिपातः । दुःखातीत इति । दुःखमतीत इति विग्रहः । 'इण गतौ' । अतिपूर्वात् कतति क्तः । इत्यादीति । गत पतितो गर्तपतितः । 'पत्ल गतौ कर्तरि क्लः । तनिफलमाह-समासान्त इति । टजचावित्यर्थः । अचि तूदाहरणम् -'तत्पुरुषस्याङ्गुलेः-' इत्यचि द्वयङ्गुलमिति बोध्यम्। पश्चराजमिति । समाहारद्विगौ 'राजाहःसखिभ्यः-' इति टच् समासस्यैवायमन्तावयव इति उत्तरपदस्यानकारान्तत्वात् स्त्रीत्वाभावः । 'समासार्थोत्तरपदान्ताः समासान्ताः' इति पक्षे तु अकारान्तोत्तरपदत्वेऽपि पात्रादित्वामेति बोध्यम् । काशिकायां तु पञ्चराजीत्युदाहृतम् । स क्वाचित्कोऽपपाठ इति हरदत्तः । अत्र केचित्-पात्रादित्वकल्पने मानाभावात्पञ्चराजीति काशिकोक्लोदा. हरणमपि सम्यगेवेत्याहुः ॥ द्वितीया श्रितातीत- यादीनां गतिविशेषवाचित्वाद् ‘गत्यर्थाकर्मक-' इति कर्तरि कः । 'प्रत्ययग्रहणे तदन्तग्रहणम्' इत्याशयेनाह