________________
प्रकरणम् १७ ] बालमनोरमा-तत्त्वबोधिनीसहिता।
[३१
अथ तत्पुरुषसमासप्रकरणम् । १८ ।
६८४ तत्पुरुषः । (२-१-२२) अधिकारोऽयम् , प्राग्बहुव्रीहेः। ६८५ द्विगुश्च । (२-१-२२) द्विगुरपि तत्पुरुषसंज्ञः स्यात् । इदं सूत्रं त्यक्तुं शक्यम्। 'संख्यापूर्वो द्विगुश्च' इति पठित्वा चकारबलेन संज्ञाद्वयसमावेशस्य सुवचत्वात् । समासान्तः प्रयोजनम् । पञ्चराजम् । ६८६ द्वितीया श्रितातीतपतितगसमीपमित्यर्थः । टचि 'यस्येति च' इति इकारलोपः, अम्भावः । इह सेनकग्रहणाद् 'नदीपौर्णमासी-' इत्यत्र ‘झयः' इत्यत्र चान्यतरस्यांग्रहणं नानुवर्तत इति केचित् । इति श्रीमद्वासुदेवदीक्षितविदुषा विरचितायां सिद्धान्तकौमुदीव्याख्यायां
बालमनोरमाख्यायां अव्ययीभावसमासप्रकरणम् ॥ अथ तत्पुरुषसमासनिरूपणम् । तत्पुरुषः । प्रागिति । 'शेषो बहुव्रीहिः' इत्यतः प्रागित्यर्थः । द्विगुश्च । द्विगुरपीति । 'तद्धितार्थोत्तरपदसमाहारे च' इति वक्ष्यमाणसमासस्य 'संख्यापूर्वो द्विगुः' इति द्विगुसंज्ञा विधास्यते । स द्विगुसमासोऽपि तत्पुरुषसंज्ञक इति यावत् । एतत्सूत्राभावे एकसंज्ञाधिकाराद् द्विगुसंज्ञया तत्पुरुषसंज्ञा बाध्येतेति भावः । इदमिति । 'द्विगुश्च' इत्येतदित्यर्थः। तर्हि द्विगुसंज्ञया तत्पुरुषसंज्ञा बाध्येतेत्यत आह-संख्येति । 'संख्यापूर्वो द्विगुः' इति द्विगुसंज्ञाविधायकं सूत्रम् । तत्र चकारः पठनीयः। ततश्च संख्यापूर्वसमासो द्विगुसंज्ञकस्तत्पुरुषसंज्ञकश्च स्यादिति लभ्यते । एवं च चकारेण लघुना तत्पुरुषसंज्ञासमुच्चय. लाभाद् 'द्विगुश्च' इति गुरुभूतं सूत्रं न कर्तव्यमित्यर्थः । ननु मास्तु द्विगोस्तत्पुरुषत्वमित्यत आह-समासान्तः प्रयोजनमिति । तदुदाहृत्य दर्शयति-पञ्चराजमिति । पञ्चानां राज्ञां समाहार इति विग्रहे 'तद्धितार्थ-' इति द्विगुः । तस्य तत्पुरुषत्वाद् 'राजाहस्सखिभ्यष्टच्' इति टच । 'स नपुंसकम्' इति नपुंसकत्वम् । 'अकाचेदं भाष्यं 'नदीपौणमासी-' इत्यत्र टचः पाक्षिकत्वे संगच्छते, नित्यार्थतया तत्पाठस्योपपत्तेः । अत एव सेनकग्रहणमुत्तरत्रार्थवत् । कैयटस्तु व्यवस्थितविभाषामाश्रित्य वृत्तिग्रन्थं कथंचित्समर्थितवानिति । गिरेश्च सेनकस्य । पूजार्थमिति । अन्यतरस्यामित्यनुवृत्त्या विकल्पसिद्धेरिति भावः ॥
द्विगुश्च । चकारबलेन संज्ञाद्वयसमावेशस्येति । न चैवं द्विगुतत्पुरुषयाः पर्यायता स्यादिति शङ्कयम् , योगं विभज्य संख्यापूर्वस्य तत्पुरुषसंज्ञां विधाय पश्चाद् द्विगुसंज्ञाविधानेन चकारपठनमन्तरेणापि पर्यायत्वसिद्धेः । नापि द्वौ अन्यौ यस्य द्वयन्य इत्यत्रातिप्रसङ्गः शङ्कयः, 'तद्धितार्थोत्तरपद-' इति सूत्रमनुवर्त्य 'तद्धितार्थ-' इत्यत्र 'उक्तस्त्रिविधः संख्यापूर्वः' इति व्याख्यानात् । द्विगोस्तत्पुरुषत्वे