________________
३० ]
सिद्धान्तकौमुदी |
[ अव्ययीभाव
स्यात् । उपचर्मम्, उपचर्म । ६८१ नदीपौर्णमास्याग्रहायणीभ्यः । ( ५-४-११०) वा टच्स्यात् । उपनदम्, उपनदि । उपपौर्णमासम्, उपपौर्णमासि । उपाग्रहायणम्, उपाग्रहायणि । ६८२ भयः । ( ५-४ - १११) भयन्तादव्ययीभावादृज्वा स्यात् । उपसमिधम्, उपसमित् । ६८३ गिरेश्व सेनकस्य । ( ५-४-११२ ) गिर्यन्तादव्ययीभावाट्टज्वा स्यात् । सेनकग्रहणं पूजार्थम् । उपगिरम्, उपगिरि ॥ ॥ इत्यव्ययीभावसमासप्रकरणम् ॥
विधिः, अन्नन्तात् क्लीवादिति लब्धम् । तेनाव्ययीभावे इत्यनुवृत्तं पञ्चम्या विपरिणतं विशेष्यते, तदन्तविधिः । तदाह - अन्नन्तादिति । उपचर्मम्, उपचर्मेति । चर्मणः समीपमित्यर्थः । सामीप्ये उपेत्यव्ययस्याव्ययीभावः । टचि टिलोपः, अम्भावः । टजभावे उपचर्मेति रूपम् । नदीपौर्णमासी । शेषपूरणेन सूत्रं व्याचष्टे – वा टजिति । अन्यतरस्यामिति टजिति चानुवर्तत इति भावः । नदी पौर्णमासी आग्र हायणी एतदन्तादव्ययीभावसमासादृज्वा स्यादिति यावत् । अत्र नदीसंज्ञकस्य न ग्रहणम्, पौर्णमास्याग्रहायणी ग्रहणाल्लिङ्गात् । उपनदमिति । नद्याः समीपमित्यर्थः । सामीप्ये उपेत्यस्याव्ययीभावसमासः । टच् 'यस्येति च' इतीकारलोपः । उपनदशब्दात् सुप्, अम्भाव इति भावः । उपनदीति । टजभावे रूपम् । नपुंसकहखः । 'अव्ययादाप्सुपः' इति लुक्। उपपौर्णमासमिति । पौर्णमास्याः समीपमित्यर्थः । टचि उपनदमितिवद्रूपम्। उपपौर्णमासीति । टजभावे रूपम् । एवम् उपाग्रहायणम् उपाग्रहायणीति ज्ञेयम् । अ हायनमस्या आग्रहायणी मार्गशीर्षपौर्णमासी, श्रत ऊर्ध्व मकरायनप्रवृत्त्या उदगयनप्रवृत्तेः । उदगयनादिरेव हि संवत्सरस्यादिः, 'अयने द्वे गतिरुदग्दक्षिणार्कस्य वत्सरः । इति प्रसिद्धेः । भयः । भया अव्ययीभावे इत्यनुवृत्तं पञ्चम्या विपरिणतं विशेष्यते । तदन्तविधिः । अन्यतरस्यामिति टजिति चानुवर्तते । तदाह - भयन्तादिति । गिरेश्च सेनकस्य । सेनको नामाचार्य: । पूजार्थ - मिति । अन्यतरस्यांग्रहणानुवृत्त्यैव विकल्पसिद्धेरिति भावः । उपगिरमिति । गिरेः
चाव्ययीभावविशेषणात्तदन्तविधिरित्याह-- तदन्तादिति । उपचर्ममिति । टचि टिलोपोऽदन्तत्वादम्भावश्च । नदीपौर्ण । इह स्वरूपस्यैव ग्रहणं न संज्ञायाः, पौर्णमास्याग्रहायण्योः पृथग्ग्रहणात् । उपनदीति । टजभावे नपुंसकह्रस्वः । अन व्याचक्षते - ' वृत्तिप्रन्थमनुरुध्येदं विकल्पकथनम् । परमार्थतस्तु नेहान्यतरस्यामित्यनुवर्तते, 'बहुगण -' इति सूत्रस्थभाष्यविरोधात् । तत्र हि नदीशब्देन नदीविशेषाणां गङ्गायमुनादीनां ग्रहणमाशङ्कय शरत्प्रभृतिषु विपाट्शब्दपाठान्नेति समाहितम् । न