________________
प्रकरणम् १७ ]
बालमनोरमा-तत्त्वबोधिनीसहिता ।
[ २६
1
देश: - परोक्षम् । 'परोक्षा क्रिया' इत्यादि तु श्रर्शश्राद्यचि । समत्तम् । अन्वत्तम् । ६७८ अनश्च । (५-४- १०८) अन्नन्तादव्ययीभावादृच्स्यात् । ६७६ नस्तद्धिते । ( ६-४-१४४ ) नान्तस्य भस्य टेर्लोपः स्यात्तद्धिते । उपराजम् । अध्यात्मम् । ६८० नपुंसकादन्यतरस्याम् । ( ५-४ -१०६) अन्नन्तं यक्लीबं तदन्तादव्ययीभावादृज्वा अक्षि इत्यनेनाव्ययीभावसमासः । टच्, सुब्लुक् । परशब्दस्य ओकारोऽन्तादेशः, पररूपम् । परोक्षायथायथं सुप्, अम्भाव इति भावः । अर्शश्राद्यचीति । परोक्षमस्यास्तीत्यर्थे परोक्षशब्दाद् धर्मप्रधानाद् 'अर्शादिभ्योऽच्' इति मत्वर्थीये प्रत्यये कृते ‘यस्येति च ' इत्यकारलोपे टापि च कृते, परोक्षा क्रिया इत्यादि ज्ञेयमित्यर्थः । अत्र गणसूत्रे परग्रहणं प्रक्षिप्तमिति युक्तम्, परोक्षे लिट्' इति सूत्रस्थभाष्य कैयटयोरत्र समासान्तस्यापि निपातनेनैव साधितत्वात् । समक्षमिति । अणोर्योग्यमित्यर्थः। यथार्थेऽव्ययीभावः । टच्, इकारलोप इति भावः । अन्वक्षमिति । अक्ष्णोः पश्चादित्यर्थः । पश्चादर्थे अव्ययीभावः । शेषं समक्षवत् । अनश्च । अव्ययीभावे इत्यनुवृत्तं पञ्चम्या विपरिणम्यते । अन इति तद्विशेषणम् । तदन्तविधिः । तदाहअन्नन्तादिति । नस्तद्धिते । न इति षष्ठयन्तम् । तेन भस्येत्यधिकृतं विशेष्यते, तदन्तविधिः । देरिति सूत्रमनुवर्तते, 'अल्लोपोऽनः' इत्यस्माल्लोप इति च । तदाहनान्तस्येति । उपराजमिति । राज्ञः समीपमित्यर्थः । सामीप्ये उपेत्यस्याव्ययी - भावः । 'अनश्च' इति टच् सुब्लुक्, टिलोपः, उपराजशब्दाद्यथायथं सुप्, अम्भावः । टजन्तस्यैवाव्ययीभावसमासत्वादृचि परे अव्ययानां भमात्रे टिलोपाप्रवृत्तेः 'नस्तद्धिते' इत्यारम्भः । अध्यात्ममिति | आत्मनीत्यर्थः । विभक्तधर्थे अव्ययीभावः । शेषं पूर्ववत् । नपुंसकादन्यतरस्याम् । अन इत्यनुवृत्तं नपुंसकस्य विशेषणम्, तदन्तविधानसामर्थ्यादिति । समक्षमिति । श्रदणो योग्यम् । अन्वक्षमिति । अक्ष्णः पश्चादित्यर्थेऽव्ययीभावः । नस्तद्धिते । न इत्यनेन भस्येत्यधिकृतं विशिष्यते, विशेषणेन तदन्तविधिरत आह— नान्तस्य भस्येति । ननूपराजमित्यत्र 'नस्तद्धिते' इति व्यर्थम्, 'अव्ययानां भमात्र -' इति टिलोपेनैव सिद्धेः । न चाव्ययत्वं विशिष्टे पर्याप्तमिति वाच्यम्, अव्ययीभावसंज्ञाया उपजीव्यत्वेन टचः पूर्वभागस्याप्यव्ययत्वानपायात् । अत्राहुः- भाष्ये लुङ्मुखस्वरोपचारेषु त्रिष्वेव कार्षेषु अव्ययीभावस्याव्ययसंज्ञाविधानान्न दोष इति । युक्तं चैतत् अन्यथा उपशरदमित्यादौ टिलोपः प्रसज्येत ॥ अध्यात्ममिति । श्रात्मनीत्यध्यात्मम् । विभक्तयर्थेऽव्ययीभावः । नपुंसकादन्य । नपुंसक ग्रहणमन्नन्तस्य विशेषणं नाव्ययीभावस्य श्रव्यभिचारादित्याह - अन्नन्तं यत्क्लीबमिति । अन्नन्तेन
"
→