________________
__ सिद्धान्तकौमुदी।
[अव्ययीभाव
२८] प्रतिविपाशम् । शरद् , विपाश् , अनस् , मनस् , उपानह् , दिव् , हिमवत्, अनडुङ्, दिश, दृश् , विश्, चेतस् , चतुर , त्यद् , तद् , यद् , कियत् , 'जराया जरस् च' (ग १४७ )। उपजरसम् । 'प्रतिपरसमनुभ्योऽषणः' (ग १४८)। 'यस्येति च' (सू ३११)। प्रत्यक्षम् । प्रचणः परम् इति विग्रहे समासान्तविधानसामर्थ्यादग्ययीभावः । 'परोक्ष लिट्' (स २१७१) इति निपातनात्परस्यौकाराशरदादिगणं पठति-शरदित्यादिना । अत्र झयन्तानां 'झयः' इति विकल्प प्राप्ते नित्यार्थः पाठः । 'जराया जरश्च' इति शरदादिगणसूत्रम् । जराशब्दस्य जरसादेशश्चास्मिन् गणे वाच्य इत्यर्थः । उपजरसमिति । जरायाः समीपमित्यर्थः । सामीप्ये उपेत्यव्ययस्य जराया इति षष्ठयन्तेनाव्ययीभावसमासे कृते टच , सुब्लुक्, उपेल्यस्य पूर्वनिपातः । टचो विभक्तित्वाभावात् तस्मिन् परेऽप्राप्ते जरसि अनेन जरस् । टजन्ताद्यथायथं सुपः अम्भाव इति भावः । 'प्रतिपरसम्-' इत्यपि गणसूत्रम् । एतेभ्यः परस्याक्षिशब्दस्य इह गणे पाठ इत्यर्थः । यस्येति चेति । टचस्तद्धितत्वात्तस्मिन् परे इकारस्य लोप इति भावः । प्रत्यक्षमिति । अक्षिणी प्रतीति विग्रहः । अक्षणो. रभिमुखमित्यर्थः । लक्षणेत्थम्-' इति कर्मप्रवचनीयत्वाद् द्वितीया। 'लक्षणेनाभिप्रती-' इत्यव्ययीभावः । टच् , सुब्लुक्, 'यस्येति च' इति इकारलोपः । प्रत्यक्षशब्दाद् यथायथं सुबुत्पत्तिः, अम्भाव इति भावः । परमिति । व्यवहितमित्यर्थः । अविषय इति यावत् । अक्ष्णः परमिति विग्रहे अव्ययीभाव इत्यन्वयः । ननु परशब्दस्यानव्ययत्वात् कथमिहाव्ययीभाव इत्यत आह-समासान्तविधानसामर्थ्यादिति । प्रतिपरसमिति परशब्दात् परस्याक्षिशब्दस्य टजर्थ शरदादिगणे पाठोऽवगतः। 'अव्ययीभावे शरत्प्रभृतिभ्यः' इत्यव्ययीभावे टज्विहितः । तत्सामर्थ्यादनव्ययस्यापि परशब्दस्याव्ययीभाव इत्यर्थः। परोक्षमिति । अक्षणः परमिति विग्रहे परमित्यस्य 'अकारान्तोत्तरपदो द्विगुः स्त्रियाम्-' इति स्त्रीत्वे 'द्विगोः' इति डीप सिध्यतीति बोध्यम् प्रतिविपाशमिति । 'लक्षणेनाभिप्रती-' इति समासः । 'विपाशा तु विपाट् स्त्रियाम्' इत्यमरः । गणं पठति-शरदित्यादिना । अत्र ये भयन्तास्तेषां "झयः' इति विकल्पे प्राप्ते नित्यार्थः पाठः। इह 'जराया जरस्-' 'प्रतिपर-' इति च द्वयं गणसूत्रम् । उपजरसमिति । जरायाः समीप इत्यर्थः ॥ यस्येति चेति । टचस्तद्धितत्वात्तस्मिन्परे इकारलोप इति भावः । प्रत्यक्षमिति । वीप्साया यथार्थत्वेन समासः । अक्ष्णोराभिमुख्यमित्यर्थे 'लक्षणेनाभिप्रती-' इति वा समासः । अक्ष्णः परमिति । अविषय इत्यर्थः । वृत्तिविषये अक्षिशब्द इन्द्रियमात्रपरः । अव्ययाघटितसमुदायस्य कथमिहाव्ययीभावो विधायकसूत्राभावादित्याशङ्कयाह