________________
प्रकरणम् १७] बालमनोरमा-तत्त्वबोधिनीसहिता। [२७ नित्यसमासः । उन्मत्तगङ्गं नाम देशः । लोहितगङ्गम् । ६७६ समासान्ताः। (५-४-६८) इत्यधिकृत्य । ६७७ अव्ययीभावे शरत्प्रभृतिभ्यः । (५-४ १०७) शरदादिभ्यष्टस्यात्समासान्तोऽव्ययीभावे । शरदः समीपमुपशरदम् । दयोर्महाविभाषाविषयत्वाद् अपवादाभावे उत्सर्गस्याप्रवृत्तिरिति ज्ञापितेऽर्थे उन्मत्तगङ्गमित्युदाहृतम् । 'अव्ययीभावेन मुक्ते बहुव्रीहिर्न' इति चोक्तं भाष्ये । अस्य समासस्य नित्यत्वे तु तदसंगतिः स्पष्टैव, कदाप्यव्ययीभावमुक्त्यसंभवात् । समासान्ताः । इत्यधिकृत्येति । आपादपरिसमाप्तेरिति भावः । अत्र समासपदम् अलौकिकविग्रहवाक्यपरमेव । अत एव बहुकुमारीक इत्यत्र ह्रखो न। 'गोस्त्रियोः-' इति सूत्रे 'अन्तः' इति सूत्रे च भाष्ये स्पष्टमेतत् । एवं चालौकिकविग्रहवाक्ये समाससंज्ञासमकालमेव समासान्ता इति सिद्धान्तः। अन्तशब्दश्वरमावयववाची। अत एव उपशरदमित्यादौ 'नाव्ययीभावात्-' इत्यम् । तत्र टचस्तदनवयवत्वे टजन्तस्याव्ययीभावसमासत्वाभावादम् न स्यात् । तथा च टचस्तदनवयवत्वे 'अव्ययानां भमात्रे टिलोपः' इति प्रसज्येत। टचस्तदवयवत्वे तु तदन्तस्यैवायव्यीभावसमासतया अव्ययत्वादुपशरद् इत्यस्याव्ययत्वाभावान्न टिलोपः । समासान्तप्रत्ययाश्चालौकिकविग्रहवाक्ये सुपः परस्तादेव भवन्ति। अत एव 'प्रत्ययस्थात्-' इति सूत्रभाष्ये 'बहुचर्मिका' इत्युदाहृतं संगच्छते। विस्तरस्तु शब्देन्दुशेखरे ज्ञेयः। अव्ययीभावे । 'राजाहस्सखिभ्यष्टच्' इत्यतः टजित्यनुवर्तते। तदाह-शरदादिभ्य इति । अव्ययीभावे उत्तरपदं यत् शरदादिप्रकृतिकं सुबन्तं तदन्तात् टच् स्यात् । स च अलौकिकविग्रहवाक्यान्तावयव इत्यर्थः। उपशरदमिति । 'अव्ययं विभक्ति-' इत्यादिना समीपार्थकस्य उपेत्यव्ययस्य शरद इति षष्ठयन्तेनाव्ययीभावः । टच । टचः समासावयवत्वेन तदन्तस्याव्यीभावसमासत्वाभावाद् अनव्ययत्वाद् 'अव्ययानां भमात्रे टिलोपः' इति न भवति । विपाट्शब्दो नदीविशेषे वर्तते। 'विपाशा तु विपाट् स्त्रियाम्' इत्यमरः । 'लक्षणेनाभिप्रती-' इति अव्ययीभावसमासः। इति कर्मण्य । संज्ञिनो देशविशेषस्यानवगमादित्यर्थः । अन्यपदार्थानवगमादिति तु नोक्तम् , यस्येत्यादिपदान्तरसमभिव्याहारेणान्यपदार्थप्रतीतेः। अत एव बहुव्रीहिर्न नित्यसमास इति भावः। संज्ञायां किम् , शीघ्रगङ्गो देशः । अथाव्ययीभावेऽसाधारणान् समासान्तानाह-अव्ययी । शरदादिभ्य इति वक्तव्ये 'पर्यायेषु लाघवचिन्ता नाद्रियते' इति प्रभृतिग्रहणं कृतम् । टच स्यादिति । 'राजाहःसखिभ्यः-' इत्यतष्टजनुवर्तत इति भावः । समासान्त इति । समासस्य समासार्थोत्तरपदस्य वा चरमावयव इत्यर्थः । तेनोपशरदमित्यत्र 'नाव्ययीभावात्-' इत्यम् सिध्यति, अव्ययीभावस्यादन्तत्वात् , द्विपुरीत्यादौ तु 'ऋक्पूरब्धः-' इत्यप्रत्यय उत्तरपदस्यावयव इति