________________
२६ ]
सिद्धान्तकौमुदी। [अव्ययीभाव. प्राग्वत् । 'समाहारे चायमिष्यते' ( वा १२४६ )। सप्तगङ्गम् । द्वियमुनम् । ६७५ अन्यपदार्थे च संज्ञायाम् ।(२-१-२१) अन्यपदार्थे विद्यमानं सुबन्तं नदीभिः सह नित्यं समस्यते संज्ञायाम् । विभाषाधिकारेऽपि वाक्येन संज्ञानवगमादिह नदीभिश्च । प्राग्वदिति । नदीभिः संख्या समस्यते सोऽव्ययीभाव इत्यर्थः । समाहारे चेति । वार्तिकम् । चकार एवार्थे, भाष्ये चकारविहीनस्यैव पाठात् । सप्तगङ्गमिति । सप्तानां गङ्गानां समाहार इति विग्रहे 'तद्धितार्थोत्तरपदसमाहारे च' इति द्विगुसमासं बाधित्वा अव्ययीभावसमासः । द्वियमनुमिति । द्वयोर्यमुनयोः समाहार इति विग्रहः । अत्र नदीशब्देन नदीशब्दविशेषस्य नदीवाचकानां च ग्रहणम् इति संख्यासंज्ञासूत्रे भाष्ये स्पष्टम् । तेन पञ्चनदं सप्तगोदावरमित्यादि सिध्यति । अन्यपदार्थे च । संख्येति निवृत्तम् । नदीभिरित्यनुवर्तते । तदाह-सुबन्तं नदीभिरिति । समस्यत इति । सोऽव्ययीभाव इत्यपि बोध्यम्। संज्ञानवगमादिति । सम्यग् ज्ञायत इति संज्ञा । 'आतश्चोपसर्गे' इति कर्मण्यङ् । उन्मत्ता गङ्गा यस्मिन्निति वाक्येन देशविशेषस्यानवगमादिह नित्यसमास इत्यर्थः । ततश्च नास्ति लौकिकविग्रहः, अस्वपदविग्रहो वेति फलति । वस्तुतस्तु विभाषाधिकारादयमपि समासो वैकल्पिक एव । अत एव 'द्वितीयतृतीय-' इति सूत्रे अन्यतरस्यांग्रहणेन उत्सर्गापवासिद्धमित्यवोचाम । जन्मनोदाहरति-एकविंशतिभारद्वाजमिति । एकविंशति. भरद्वाजवंश्या इति विग्रहः । ननु भरद्वाजाद्विदायो 'यजमोश्च' इति लुक् प्राप्नोति । न च वर्तिपदानां स्वार्थोपसर्जनैकत्वविशिष्टार्थान्तरोपसंक्रमाल्लुगभाव इति कैयटोक्तमादर्तव्यम् । वृत्तिप्रवेशात्प्रागेव प्राप्नुवतोऽन्तरङ्गस्य लुको दुर्वारत्वात् । अन्यथा गर्गाणां कुलं गर्गकुलमित्यपि न स्यात् । अत्राहुः-भाष्यकारप्रयोगादेव लुगभावोऽत्र बोध्य इति । एतच 'तृतीयासप्तम्योः-' इति सूत्रे शब्दकौस्तुभे स्पष्टम् । नदीभिश्च । स्वरूपस्य संज्ञायाश्च नेह ग्रहणं बहुवचननिर्देशात् , किं त्वर्थस्य । न च तस्य समासः संभवति, अतस्तद्वाचिनामयं समासः,ते च न केवलं विशेषशब्दा एव, किंतु सामान्यशब्दा अपि । तेन पश्चनदं सप्तगोदावरमिति सिद्धम् । 'गोदावर्याश्च नद्याश्च' इति वक्ष्यमाणेन समासान्तोऽच् । चकारेण संख्येत्यनुकृष्यत इत्याह-संख्येति । स्यादेतत् , पुरस्तादपवादन्यायेन 'पूर्वकालैक-' इत्यस्यैवेदं बाधकं स्यात्ततश्चैकनदीत्यत्राव्ययीभावे तन्निबन्धनस्य 'नदीपौर्णमास्या-' इति टचः प्रसङ्गः । समाहारे तु परत्वाद् द्विगुरेव स्यादित्यत आह-समाहारे चायमिति । एवकारार्थश्चकारः । एवं च द्विगोरपवादोऽयमव्ययीभाव इति फलितम् । अन्यपदार्थे च । संख्येति निवृत्तम् । नदी. ग्रहणमनुवर्तते । तदाह -सुबन्तं नदीभिः सहेति । अन्यपदार्थ इति किम् , कृष्णवेणी । संज्ञानवगमादिति । सम्यग् ज्ञायत इति संज्ञा, 'आतश्चोपसर्गे'