________________
प्रकरणम् १७ ] बालमनोरमा-तत्त्वबोधिनीसहिता । [ २५
1
मध्यात् । ६७३ संख्या वंश्येन । ( २-१-१६) वंशो द्विधा, विद्यया जन्मना च, तत्र भवो वंश्यः, तद्वाचिना सह संख्या वा समस्यते । द्वौ मुनी वंश्यौ द्विमुनि व्याकरणस्य | त्रिमुनि । विद्यातद्वतामभेदविवक्षायां त्रिमुनि व्याकरणम् । एकविंशतिभारद्वाजम् । ६७४ नदीभिश्च । ( २-१ -२० ) नदीभिः सह संख्या संख्या वंश्येन । वंशो द्विधति । वंशः संततिः । ' संततिर्गोत्रजननकुलान्यभिजनान्वयौ । वंशोऽन्ववायः संतानः' इत्यमरः । विद्यया जन्मनेति । तत्र जन्मना वंशः पुत्रादिपरम्परेति प्रसिद्धमेव । विद्यया तु वंशः गुरुपरम्परा, 'यस्माद्धर्मानाचिनोति स आचार्यः । तस्मै न दुह्येत् कदाचन । स हि विद्यतस्तं जनयति । 'तच्छ्रेष्ठं जन्म । शरीरमेव मातापितरौ जनयतः' इत्याद्यापस्तम्बस्मरणात् । तत्र भवो वंश्य इति । दिगादित्वाद् यत् । वा समस्यत इति । सोव्ययीभाव इत्यपि बोध्यम् । I मुनी वंश्याविति । विग्रहोऽयम् । मुनिशब्दो विद्यावंश्यवाचीति सूचनाय वंश्यावित्युक्तम् । द्विमुनि व्याकरणस्येति । द्वौ च तौ मुनी चेति विग्रहे 'विशेषणं विशेष्येण बहुलम्’इति कर्मधारयं बाधित्वा अव्ययीभावः । अव्ययत्वात् सुब्लुक् । व्याकरणविद्यायाः प्रर्वतकौ द्वौ मुनी पाणिनिकात्यायनावित्यर्थः । त्रिमुनीति । त्रयो मुनयः पाणिनिकात्यायनपतञ्जलय इति विग्रहः । नन्वेवं त्रिमुनि व्याकरणमिति सामानाधिकरण्यानुपपत्तिरित्यत आह - विद्यातद्वतामिति । यद्यपि बहुव्रीहिणाप्येतत् सिद्धम् । तथापि विभक्त्यन्तरेषु रूपभेद इत्याहुः । अथ जन्मना वंश्यमुदाहरति - एकविंशतिभारद्वाजमिति । एकविंशतिः भरद्वाजा इति कर्मधारयं बाधित्वा अव्ययीभावः । तत्र विग्रहवाक्ये भरद्वाजशब्दाद् विदादित्वादञ् । 'यनञोश्व' इति लुक् । समासे तु ‘उपक्रादिभ्योऽन्यतरस्यामद्वन्द्वे ' इति लुगभावः । ' तृतीयासप्तम्योर्बहुलम्' इति सूत्रे 'एकविंशतिभारद्वाजम्' इति प्रयोगदर्शनेन उपकादिषु भारद्वाजशब्दस्य पाठानुमानात् । स्येत्येकदेशिसमागन मुक्ते षष्ठीसमासो न भवति, दक्षस्यापत्यं दाक्षिरित्यत्र अतइना मुक्ते अण् न भवति, किंतूभयत्र वाक्यमेवेति । संख्या वंश्येन । वंशः संतानस्तत्र भवो वंश्यः । दिगादित्वात् । द्विमुनीति | प्राणिनिकात्यायनौ । त्रिमुनीति । तौ द्वौ पतञ्जलिश्चेति त्रयो वंश्याः । व्याकरणस्येति संबन्धे षष्ठी | स्वपदार्थ प्राधान्य एवायं समासः । यदा त्वन्यपदार्थप्राधान्यविवक्षा त्रयो मुनयो वंश्या यस्येति तदा बहुव्रीहिरेवेत्याहुः । त्रिमुनि व्याकरणमिति । यद्यप्येतद्बहुव्रीहिणाऽप्युपपन्नम्, तथापि विभत्तयन्तर रूपेऽपि विशेषोऽस्त्येवेति भावः । वस्तुतस्तु 'लक्षणेनाभिप्रती -' इति साभिमुख्यग्रहणाद्बहुव्रीहिविषयेऽप्यव्ययीभावो भवतीति द्विमुनि व्याकरणमित्यादि १ अयं विरामो बालमनोरमानुरोधेन । तत्त्वबोधिनीमते तु 'द्विमुनि' इत्येवं द्विमुनिशब्दानन्तरं विरामः ।